________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
[समयं करोति ] समयं करोति । सङ्केतमित्यर्थः ॥छ।।
सपत्र-निष्पत्रादतिव्यथने ॥ ७।२।१३८ ॥ [सपत्रनिष्पत्रात्] सपत्रश्च निष्पत्रश्च = सपत्रनिष्पत्रम्, तस्मात् । [अतिव्यथने ] अतीव व्यथनम् = अतिव्यथनम्, तस्मिन् ।
[सपत्राकरोति मृगम्] पत्रं-शरः । सह पत्रमनेनेति सपत्रः । 'एकार्थं चाऽनेकं च' (३।१।२२) इति समासः । तं करोति = सपत्राकरोति मृगम् । अनेन डान्प्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । शरमस्य शरीरे प्रवेशयतीत्यर्थः ।
[निष्पत्राकरोति] निर्गतं पत्रमस्मादिति निष्पत्रम्, तं करोति = निष्पत्राकरोति । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । शरमस्यापरपाइँन निष्क्रमयतीत्यर्थः ।।
[सपत्राकरोति वृक्षं वायुः] सपत्रं करोति = सपत्राकरोति वृक्षं वायुः । [निष्पत्राकरोति वृक्षं वायुः ] निष्पत्रं करोति = निष्पत्राकरोति वृक्षं वायुः । अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्पत्राकरणमेवोच्यते । यथा दीपो नन्दतीति विध्वंसः ॥छ।।
निष्कुलान्निष्कोषणे ॥ ७।२।१३९ ॥ [निष्कुलात् ] निष्कुल पञ्चमी ङसि । [निष्कोषणे] निष्कोषण सप्तमी ङि । निष्कृष्टं कुलमवयवसङ्घातोऽस्मादिति निष्कुलम् । अन्तरवयवानां बहिनिष्कासनं = निष्कोषणम् ।
[निष्कुलाकरोति दाडिमम्] निष्कुलं करोति = निष्कुलाकरोति दाडिमम् । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । निष्कुष्णातीत्यर्थः । [निष्कुलाकरोति पशुं चण्डाल:] निष्कुलं करोति = निष्कुलाकरोति पशुं चण्डालः । अनेन डाचप्र० छ।
प्रिय-सुखादानुकूल्ये ॥ ७।२।१४० ॥ [प्रियसुखात् ] प्रियश्च सुखं च = प्रियसुखम्, तस्मात् । [आनुकूल्ये ] परचित्ताराधनमानुकूल्यम् । अनुकूलस्य भावः = आनुकूल्यम्, तस्मिन् । [प्रियाकरोति गुरुम् ] प्रियं करोति = प्रियाकरोति । अनेन डाचप्र० → आ । [सुखाकरोति गुरुम् ] सुखं करोति = सुखाकरोति । अनेन डाचप्र० → आ । गुरुमाराधयतीत्यर्थः ॥छ।
दुःखात् प्रातिकूल्ये ॥ ७।२।१४१ ॥ [दुःखात् ] दुःख पञ्चमी ङसि ।
[प्रातिकूल्ये] कूलं प्रतिगतः = प्रतिकूलम् । प्रतिकूलस्य भावः = प्रातिकूल्यम्, तस्मिन् । 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक । विपरीतकरणमित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org