SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कृगा] कृग् तृतीया टा। [कृषौ] कृषि सप्तमी ङि । [डाच्] डाच् प्रथमा सि । [द्वितीयाकरोति क्षेत्रम् ] द्वितीयं वारं करोति क्षेत्रं = द्वितीयाकरोति । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । द्वितीयं वारं कृषतीत्यर्थः । [तृतीयाकरोति क्षेत्रम् ] तृतीयं वारं करोति क्षेत्रं = तृतीयाकरोति क्षेत्रम् । अनेन डान्प्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । तृतीयं वारं कृषतीत्यर्थः । _ [शम्बाकरोति क्षेत्रम् ] शम्बशब्दस्तिर्यगर्थः । शम्बं करोति क्षेत्रं = शम्बाकरोति । अनेन डाचप्र अनुलोमकृष्टं प्राञ्जलकृष्टमित्यर्थः । पुनस्तिर्यग् कृषतीत्यर्थः । अन्ये तु शम्बं लोहकण्ठी वर्धकुण्डलिका वा तत् साधनं कारकं यस्य शम्बसाधनः कृषिरिति शम्बेन कृषतीत्यर्थः । . एके तु [शम्बाकरोति कुलिवम् ] शम्बं करोति कुलिवं = शम्बाकरोति कुलिवम् । मतान्तरेण अनेन डाचप्र० । शम्बपूर्वोक्तं तत् कुलिवस्य करोतीत्यर्थः । [बीजाकरोति क्षेत्रम्] बीजं करोति-खोटयति क्षेत्रं = बीजाकरोति क्षेत्रम् । अनेन डान्प्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । उप्ते पश्चाद् बीजैः सह कृषतीत्यर्थः । ननु प्रथमं क्षेत्रस्य उत्पन्ने कथं द्वितीयेत्याशङ्का यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि, कर्ष, कर्षणं करोति । शम्बं करोति क्षेत्रस्य कुलिवस्य वा बीजं करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्रात् द्वितीया भवति । द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रिया शब्दाः तेषां च क्षेत्रादि कर्म भवति । चकारो 'डाच्यादौ' (७।२।१४९) इत्यत्र विशेषणार्थः ॥छ।। संख्यादेर्गुणात् ॥ ७।२।१३६ ॥ [संख्यादेः] संख्या चासावादिश्च = संख्यादिस्तस्मात् । [गुणात्] गुण पञ्चमी ङसि । [द्विगुणाकरोति क्षेत्रम् ] द्विगुणं कर्षणं करोति क्षेत्रस्य = द्विगुणाकरोति क्षेत्रम् । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अलुक् । क्षेत्रस्य द्विगुणं विलेखनं करोतीत्यर्थः । [त्रिगुणाकरोति क्षेत्रम्] त्रिगुणं कर्षणं करोति क्षेत्रस्य = त्रिगुणाकरोति क्षेत्रम् । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अलुक् । क्षेत्रस्य त्रिगुणं विलेखनं करोतीत्यर्थः ॥छ।। समयाद् यापनायाम् ॥ ७।२।१३७ ॥ [समयात्] समय पञ्चमी ङसि । [ यापनायाम् ] यापना सप्तमी ङि । [समयाकरोति तन्तुवायः] समयं करोति = समयाकरोति तन्तुवायः । कुविन्दः कालिक इत्यर्थः । अनेन डाचप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । अद्य श्वस्ते (श्वो वा) पटं दास्यामीति कालक्षेपं करोतीत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy