SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १५७ [च] च प्रथमा सि । चकारो न स्सातोऽनुकर्षणार्थः, तस्याधीनतामात्रविवक्षायां पूर्वेणैव सिद्धत्वात्, किन्तु कृभ्वस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्थः, तेनोत्तरत्र नानुवर्त्तते । [देवत्रा करोति द्रव्यम्, देवत्रा भवति, देवत्रा स्यात्, देवत्रा संपद्यते ] देव । देवेऽधीनं देयं करोति = देवत्रा करोति द्रव्यम् । अनेन त्राप्र० । देवाय दातव्यमिति यत् स्थापितं तदिदानी देवाय ददातीत्यर्थः । देवेऽधीनं देयं भवति = देवत्रा भवति । देवेऽधीनं देयं स्यात् = देवत्रा स्यात् । देवेऽधीनं देयं संपद्यते = देवत्रा संपद्यते । अनेन त्राप्र० । [गुरुत्रा करोति, गुरुत्रा भवति, गुरुत्रा स्यात्, गुरुत्रा संपद्यते] गुरुषु अधीनं देयं करोति = गुरुत्रा करोति । गुरुषु अधीनं देयं भवति = गुरुत्रा भवति । गुरुषु अधीनं देयं स्यात् = गुरुत्रा स्यात् । गुरुषु अधीनं देयं संपद्यते = गुरुत्रा संपद्यते । अनेन त्राप्र० । [ राजसाद्भवति राष्ट्रम् ] राजन्यधीनं भवति = राजसाद्भवति राष्ट्रम् । 'तत्राऽधीने' (७।२।१३२) सात्प्र० ॥छ।। सप्तमी-द्वितीयाद् देवादिभ्यः ॥ ७।२।१३४ ॥ [सप्तमीद्वितीयात् ] सप्तमी च द्वितीया च = सप्तमीद्वितीयम्, तस्मात् । [ देवादिभ्यः ] देव आदिर्येषां ते = देवादयः, तेभ्यः = देवादिभ्यः । पञ्चमी भ्यस् । [ देवत्रा वसति ] देवेषु वसति = देवत्रा वसति । [ देवत्रा भवति ] देवेषु भवति = देवत्रा भवति । [ देवत्रा स्यात् ] देवेषु स्यात् = देवत्रा स्यात् । [ देवत्रा करोति ] देवान् करोति = देवत्रा करोति । [ देवत्रा गच्छति ] देवान् गच्छति = देवत्रा गच्छति । [मनुष्यत्रा वसति] मनुष्येषु वसति = मनुष्यत्रा वसति । . [ मनुष्यत्रा गच्छति ] मनुष्यान् गच्छति = मनुष्यत्रा गच्छति । [मर्त्यत्रा वसति] मत्र्येषु वसति = मर्त्यत्रा वसति । [मर्त्यत्रा गच्छति] मान् गच्छति = मर्त्यत्रा गच्छति । [पुरुषत्रा वसति ] पुरुषेषु वसति = पुरुषत्रा वसति । [पुरुषत्रा गच्छति ] पुरुषान् गच्छति = पुरुषत्रा गच्छति । [बहुत्रा वसति ] बहुषु वसति = बहुत्रा वसति । [बहुत्रा गच्छति ] बहून् गच्छति = बहुत्रा गच्छति । सर्वत्र अनेन त्राप्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ॥छ।। तीय-शम्ब-बीजात् कृगा कृषौ डाच् ॥ ७।२।१३५ ॥ [तीयशम्बबीजात् ] तीयश्च शम्बश्च बीजश्च = तीयशम्बबीजम्, तस्मात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy