________________
१५६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[उदकसात् करोति लवणम्, उदकसाद्भवति, उदकसात् स्यात्] सर्वं लवणं प्रागनुदकमुदकं करोति = उदकसात् करोति । अनुदकमुदकं भवति = उदकसाद्भवति । अनुदकमुदकं स्यात् = उदकसात् स्यात् । अनेन सात्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२१७) सिलुप् ॥छ।।
जातेः सम्पदा च ॥ ७।२।१३१ ॥
[जातेः] जाति षष्ठी ङस् । [सम्पदा] सम्पद् तृतीया टा । [च] च प्रथमा सि ।
[अस्यां सेनायां सर्वं शस्त्रमग्निसात् करोति दैवम्, अग्निसाद्भवति, अग्निसात् स्यात् ] अस्यां सेनायां सर्वं शस्त्रमनग्निमग्नि करोति = अग्निसात् करोति । अस्यां सेनायां सर्वं शस्त्रमनग्निरग्निर्भवति = अग्निसाद्भवति । अस्यां . सेनायां सर्वं शस्त्रमनग्निरग्निः स्यात् = अग्निसात् स्यात् । अनेन सात्प्र० ।
[अस्यां सेनायां सर्वं शस्त्रमग्निसात् संपद्यते] अस्यां सेनायां सर्वं शस्त्रमनग्निरग्निः संपद्यते = अग्निसात् संपद्यते । अनेन सात्प्र० ।
[वर्षास सर्वं लवणमुदकसात् करोति मेघः, उदकसाद्भवति, उदकसात् स्यात्, उदकसात् संपद्यते] वर्षासु सर्वे . लवणमनुदकमुदकं करोति = उदकसात् करोति मेघः । अनेन सात्प्र० । अनुदकः उदको भवति = उदकसाद्भवति । अनुदकः उदक: स्यात् = उदकसात् स्यात् । अनुदक: उदकः संपद्यते = उदकसात् संपद्यते । अनेन. सात्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
अनेकव्यक्त्याधारा हि जातिः, तीरीतोमरादयो हि जातेरवयवाः, तेषां प्रागतत्तत्त्वेन सम्बन्धे जातेरपि व्याप्तिर्भवतीति अन्यथा जातेरेकत्वात् व्याप्तिर्न स्यादिति चकार उत्तरत्रोभयोः कृभ्वस्तिसम्पद्योः समुच्चयार्थः ॥छ।।
तत्राऽधीने ॥ ७।२।१३२ ॥
[तत्र] तत्र प्रथमा सि ।
[अधीने] अधि इनो यत्तदधीनम्, तस्मिन् । कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते । कर्मकर्तभ्यां प्रागतत्तत्त्वे इति च निवृत्तम् ।
[राजसात् करोति, राजसाद्भवति, राजसात् स्यात्, राजसात् संपद्यते ] राजन् । राजन्यधीनं करोति = राजसात् करोति । अनेन सात्प्र० । राजस्वामिकं करोतीत्यर्थः । राजन्यधीनं भवति = राजसाद्भवति । राजन्यधीनं स्यात् = राजसात् स्यात् । राजन्यधीनं संपद्यते = राजसात् संपद्यते । अनेन सात्प्र० । 'नाम्नो नोऽनह्नः' (२।१९१) नलुक् ।
[आचार्यसात् करोति, आचार्यसाद्भवति, आचार्यसात् स्यात्, आचार्यसात् संपद्यते] आचार्येऽधीनं करोति = आचार्यसात् करोति । आचार्येऽधीनं भवति = आचार्यसाद्भवति । आचार्येऽधीनं स्यात् = आचार्यसात् स्यात् । आचार्येऽधीनं संपद्यते = आचार्यसात् संपद्यते । अनेन सात्प्र० ॥छा।
देये त्रा च ॥ ७।२।१३३ ॥ [ देये ] देय सप्तमी ङि । [त्रा] त्रा प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org