SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १५१ पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति ॥ ७।२।१२४ ॥ [पश्चः] पश्च प्रथमा सि । [अपरस्य] अपर षष्ठी ङस् । [दिक्पूर्वस्य ] दिग्वाची शब्दः पूर्वो यस्य सः = दिक्पूर्वस्तस्य । [च] च प्रथमा सि । [आति] आत् सप्तमी ङि । [पश्चाद्रमणीयम् ] अपरा दिग-देश:-कालो वा रमणीयः = पश्चाद्रमणीयम् । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन "पश्च"देशः अपरशब्दस्य । [पश्चादागतः] अपरस्या दिशः, अपरस्मात् देशात् कालाद्वा आगतः = पश्चादागत: । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन अपरशब्दस्य “पश्च"देशः । [पश्चाद्वसति] अपरस्यां दिशि, अपरस्मिन् देशे काले वा वसति = पश्चाद्वसति । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन अपरशब्दस्य "पश्च"देशः । दिक्पूर्वात् - [दक्षिणपश्चाद्रमणीयम् ] दक्षिणा च सा अपरा च = दक्षिणापरा । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवद्भावः । संज्ञायाम्-'दिगधिकं संज्ञा-तद्धितोत्तरपदे' (३।१।९८) इत्यनेन समासः । दक्षिणापरा दिग् देशो वा रमणीयः = दक्षिणपश्चाद्रमणीयम् । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन "पश्च"देशः । ___ [दक्षिणपश्चादागतः] दक्षिणाऽपरस्या दिशः, दक्षिणापरात् देशाद्वा आगतः = दक्षिणपश्चादागतः । 'अधराऽपराच्चाऽऽत्' (७२।११८) आत्प्र० । अनेन “पश्च"देशः । [दक्षिणपश्चाद्वसति ] दक्षिणापरस्यां दिशि, दक्षिणापरे देशे वा वसति = दक्षिणपश्चाद्वसति । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन "पश्च"देशः । [उत्तरपश्चाद्रमणीयम् ] उत्तरा च सा अपरा च = उत्तरापरा । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । उत्तरापरा दिग्-देशो वा रमणीयः = उत्तरपश्चाद्रमणीयम् । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अनेन "पश्च"देशः । [उत्तरपश्चादागतः ] उत्तरापरस्या दिशः, उत्तरापरस्माद्देशाद् वा आगतः = उत्तरपश्चादागतः । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । अनेन "पश्च"देशः । [उत्तरपश्चाद्वसति] उत्तरापरस्यां दिशि, उत्तरापरस्मिन् देशे वा वसति = उत्तरपश्चाद्वसति । 'अधरा-ऽपराच्चाऽऽत्' (७२।११८) आत्प्र० । अनेन "पश्च"देशः ॥छ। वोत्तरपदेऽढें ॥ ७।२।१२५ ॥ [वा] वा प्रथमा सि । [उत्तरपदे] उत्तरपद सप्तमी ङि । [अ॰] अर्द्ध सप्तमी ङि। [पश्चार्द्धम्, अपरार्द्धम् ] अपरमर्द्ध = पश्चार्द्धम् । अनेन अपरशब्दस्य "पश्च"देशः विकल्पेन । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy