________________
१५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[अधरेण] अस्मादधरा अदूरा दिग् रमणीया, अस्मादधरो अदरो देश:-कालो वा रमणीयः = अधरेण । अनेन एनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् ।
[पुरो रमणीयम्] पूर्वा दिग् रमणीया = पुरो रमणीयम् । पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्प्र०-पूर्वशब्दस्य "पुर्"देशश्च ।
[पुरो वसति] पूर्वस्यां दिशि वसति = पुरो वसति । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ०' (७।२।११५) अस्प्र०पूर्वशब्दस्य "पुर्"देशश्च ।
[पुर आगतः] पूर्वस्या दिश (आ)गतः = पुर (आ)गत: । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ०' (७।२।११५) अस्प्र०-पूर्वशब्दस्य "पुर्"देशश्च ।
दिग्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता अदूरे अपि सामान्यविवक्षायां ते भवन्त्येव, प्रकरणादेश्चाऽदूरता गम्यते इति नाऽर्थो न प्रयोजनं वाग्रहणेन । एवं तर्हि 'आ-ऽऽही दूरे' (७२।१२०) इत्यत्र कथमुक्तम् ? विशेषविहितेन आहिना बाधो मा भूदित्येवमर्थमिति अनेनैव प्रकारेण सिद्धत्वात्, सत्यम्, सोऽपि प्रकारोऽस्तीति ज्ञापनार्थम् ॥छा।
लुबञ्चेः ॥ ७।२।१२३ ॥ [लुप्] लुप् प्रथमा सि ।
[अञ्चेः] अञ्चि पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां ङसि-ङसो र:' (१।४।३५) ङसि० → र० ।
[प्राग्रमणीयम् ] प्र 'अञ्चू गतौ च' (१०५) अञ्च् । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् ।। 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'अञ्चः' (२।४।३) ङी । प्राची दिग् अदूरा दूरा वा रमणीया, प्राग् देश:-कालो वा अदरो दुरो वा रमणीयः = प्राग्रमणीयम् । 'दिकशब्दाद दिग-देश-कालेषु प्रथमा-पञ्चमी-सप्तम्याः' (७।२।११३) धाप्र० । अथवा 'अदूरे एनः' (७२।१२२) एनप्र० । अनेन लुप् । 'यादेौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) ङीनिवृत्तिः ।।
[प्रागागतः] प्राच्या दिश अदूराया दूराया वा आगतः = प्रागागतः । प्राचो देशात् कालाद्वा आगतः = प्रागागतः । 'दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा०' (७२।११३) धाप्र० । अथवा 'अदूरे एनः' (७।२।१२२) एनप्र० । अनेन लुप् । 'ङ्यादेौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः ।
[प्राग्वसति] प्राच्यां दिशि अदूरायां दूरायां वा वसति = प्राग्वसति । 'दिक्शब्दाद् दिग्-देशकालेषु०' (७।२।११३) धाप्र० । अथवा 'अदूरे एनः' (७।२।१२२) एनप्र० । अनेन लुप् । 'ङ्यादेौणस्या०' (२।४।९५) ङीनिवृत्तिः ।
[प्रत्यक् रमणीयम् ] प्रतीची दिग् अदूरा दूरा वा रमणीया, प्रत्यग् देशः-कालो वा अदूरो दूरो वा रमणीयः = प्रत्यक् । 'दिक्शब्दाद्' (७।२।११३) धाप्र० । अथवा 'अदूरे एनः' (७।२।१२२) एनप्र० । अनेन लुप् । 'ङ्यादेर्गौणस्याक्विप०' (२।४।९५) डीनिवृत्तिः ।
[अवाक् ] अवाची दिग् अदूरा दूरा वा रमणीया, अवाक् देश:-कालो वा अदूरो दूरो वा रमणीयः = अवाक् । 'दिक्शब्दाद्'० (७।२।११३) धाप्र० । अथवा 'अदूरे एनः' (७।२।१२२) एनप्र० । अनेन लुप् । 'ङ्यादेगौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः ॥छ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org