________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१४९
[दक्षिणतः, दक्षिणात्, दक्षिणा रमणीयम्] दक्षिणत:-'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । दक्षिणात्'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । दक्षिणा रमणीयम् 'वा दक्षिणात् प्रथमा-सप्तम्या आः' (७२।११९) आप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ॥छ।।
वोत्तरात् ॥ ७।२।१२१ ॥ [वा] का प्रथमा सि । [उत्तरात्] उत्तर पञ्चमी ङसि । योगविभागाद् दूर इति नानुवर्तते ।
[उत्तरा रमणीयम्, उत्तराहि रमणीयम्, उत्तरतः, उत्तरात्] उत्तरा दिग्-देश:-कालो वा रमणीयः = उत्तरा रमणीयम्, उत्तराहि रमणीयम् । अनेन आ-आहिप्र० । पक्षे-'दक्षिणोत्तराच्चाऽतस्' (७२।११७) अतस्प्र० । 'अधराऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् ।
[उत्तरा वसति, उत्तराहि वसति, उत्तरतः, उत्तरात् ] उत्तरस्यां दिशि, उत्तरस्मिन् देशे काले वा वसति = उत्तरा वसति, उत्तराहि वसति । अनेन आ-आहिप्र० । पक्षे-'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । 'अधराऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् ॥छ।।
अदूरे एनः ॥ ७।२।१२२ ॥ [अदूरे] अदूर सप्तमी ङि । [एनः ] एन प्रथमा सि । 'सो रुः' (२।१२७२) स० → र० ।
वोत्तरादिति नानुवर्तते । 'द्वितीया-षष्ठ्यावेनेनाऽनञ्चे:' (२।२।११७) इत्यत्र अञ्चेवर्जनात्, अत्र पञ्चम्या अग्रहणाद् वा। __ [पूर्वेणास्य रमणीयम् ] अस्मात् पूर्वा अदूरा दिग् रमणीया, अस्मात् पूर्वो देशः-कालो वा रमणीयः = पूर्वेणास्य रमणीयम् । अनेन एनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । __ [पूर्वेणास्य वसति] अस्मात् पूर्वस्यां अदूरायां दिशि वसति, अस्मात् पूर्वस्मिन् अदूरे देशे काले वा वसति = पूर्वेणास्य वसति । अनेन एनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लक ।
[अपरेणास्य रमणीयम् ] अस्मात् अपरा अदूरा दिग् रमणीया, अस्मात् अपरो देशः-कालो वा रमणीयः = अपरेण अस्य रमणीयम् । अनेन एनप्र० ।
[अपरेणास्य वसति] अस्मादपरस्यां अदूरायां दिशि वसति, अस्मात् अपरस्मिन् देशे काले वा वसति = - अपरेण । अनेन एनप्र० ।
_[दक्षिणेन ] अस्माद्दक्षिणा अदूरा दिग् रमणीया, अस्माद्दक्षिणो अदूरो देशो रमणीयः = दक्षिणेन । अनेन एनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
[उत्तरेण] अस्मादुत्तरा अदूरा दिग् रमणीया, अस्मादुत्तरो अदरो देश:-कालो वा रमणीयः = उत्तरेण । अनेन एनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org