SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [उत्तराद्रमणीयम्] उत्तरा दिग्-देश:-कालो वा रमणीयः = उत्तराद्रमणीयम् । अनेन आत्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [उत्तरादागतः ] उत्तरस्या दिशः, उत्तरस्मात् देशात् कालाद्वा आगतः = उत्तरादागतः । अनेन आत्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [ उत्तराद्वसति] उत्तरस्यां दिशि, उत्तरस्मिन् देशे काले वा वसति = उत्तराद्वसति । अनेन आतप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् ॥छ। वा दक्षिणात् प्रथमा-सप्तम्या आः ॥ ७।२।११९ ॥ [वा] वा प्रथमा सि । [दक्षिणात्] दक्षिण पञ्चमी ङसि । [प्रथमासप्तम्याः] प्रथमा च सप्तमी च = तत्, तस्मात् । [आः] आ प्रथमा सि । [दक्षिणा रमणीयम्, दक्षिणतो रमणीयम्, दक्षिणाद्रमणीयम् ] दक्षिणा दिग् देशो वा रमणीयः = दक्षिणा रमणीयः । अनेन आप्र० । पक्षे-'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । [दक्षिणा वसति, दक्षिणतो वसति, दक्षिणाद्वसति] दक्षिणस्यां दिशि, दक्षिणस्मिन् देशे वसति । अनेन आप्र० । पक्षे-'दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प्र० । 'अधरा-ऽपराच्चाऽऽत्' (७२।११८) आत्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । यत्र दक्षिणशब्दस्तत्र काले वाक्यं न कार्यम् । पञ्चम्यां सावकाशावतसातावाकारो बाधेत इति वाग्रहणम् । [दक्षिणत आगतः] दक्षिणस्या दिशः, दक्षिणाद्देशादागतः = दक्षिणत आगतः । 'दक्षिणोत्तराच्चाऽतस्' (७१२।११७) अतस्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । [दक्षिणादागतः ] दक्षिणस्या दिशः, दक्षिणाद्देशादागतः = दक्षिणादागतः । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् ॥छ।। आ-ऽऽही दूरे ॥ ७।२।१२० ॥ [आऽऽही ] आश्च आहिश्च = आऽऽही । 'औरीः' (१।४।५६) ई। [दूरे] दूर सप्तमी ङि । [ग्रामाइक्षिणा रमणीयम्, दक्षिणाहि रमणीयम् ] ग्रामारा दक्षिणा दिग्-देशो वा रमणीयः = ग्रामाद्दक्षिणा रमणीयम् । एवम्-दक्षिणाहि । अनेन आ-आहिप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [ग्रामादूरा दक्षिणा वसति, दक्षिणाहि वसति] नामाहूरा दक्षिणस्यां दिशि, दक्षिणस्मिन् देशे वा वसति = ग्रामादूरा दक्षिणा वसति । एवम्-दक्षिणाहि । अनेन आ-आहिप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy