SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १४७ [पारतम् ] परतो भवं = पारतम् । 'भवे' (६।३।१२३) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७४।६५) अस्लोपः ॥छ।। अधरा-ऽपराच्चाऽऽत् ॥ ७।२।११८ ॥ [अधराऽपरात्] अधरश्च अपरश्च = अधराऽपरम्, तस्मात् । [च] च प्रथमा सि । [आत्] आत् प्रथमा सि । [अधराद्रमणीयम् ] अधरा दिग्-देश:-कालो वा रमणीयः = अधराद्रमणीयम् । अनेन आत्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [अधरादागतः] अधरस्या दिश आगतः, अधरात् देशात् कालाद्वा आगतः = अधरादागतः । अनेन आत्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [अधराद्वसति] अधरस्यां दिशि वसति, अधरस्मिन् देशे काले वा वसति = अधराद्वसति । अनेन आत्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । एवं च अधरशब्दस्य त्रैरूप्यम्, अधः-अधस्तात्-अधरात् । - [पश्चाद्रमणीयम् ] अपरा दिग्-देश:-कालो वा रमणीयः = पश्चाद्रमणीयम् । अनेन आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्चदेशोऽदन्तः कार्यः, पश्चार्द्धमित्यादि सिद्ध्यर्थं, ततः 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [पश्चादागतः ] अपरस्या दिश आगतः, अपरस्मात् देशात् कालात् वा आगतः = पश्चादागतः । अनेन आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्चादेशः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [पश्चाद्वसति] अपरस्यां दिशि वसति, अपरस्मिन् देशे काले वा वसति = पश्चाद्वसति । अनेन आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्चादेशः । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । पश्चाद्रमणीयम] दक्षिणा च सा अपरा च = दक्षिणापरा, दक्षिणापरा दिग रमणीया = दक्षिणपश्चाद्रमणीयम । अनेन आत्प्र० । 'पश्चोऽपरस्य०' (७।२।१२४) पश्चादेशः । [दक्षिणपश्चादागतः ] दक्षिणापरस्या दिश आगतः = दक्षिणपश्चादागतः । अनेन आत्प्र० । 'पश्चोऽपरस्य०' (७२।१२४) "पश्च"देशः । . [दक्षिणपश्चाद्वसति] दक्षिणापरस्यां दिशि वसति = दक्षिणपश्चाद्वसति । अनेन आतप्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) "पश्च"देशः । [दक्षिणाद्रमणीयम्] दक्षिणा दिग-देशो वा रमणीयः = दक्षिणाद्रमणीयम् । यत्र दक्षिणशब्दस्तत्र काले वाक्यं न कार्यम् । [दक्षिणादागतः ] दक्षिणस्या दिशः, दक्षिणात् देशाद्वा आगतः = दक्षिणादागतः । अनेन आत्प्र० । [दक्षिणाद्वसति ] दक्षिणस्यां दिशि, दक्षिणस्मिन् देशे वसति = दक्षिणाद्वसति । अनेन आत्प्र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy