SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । . दक्षिणोत्तराच्चाऽतस् ॥ ७।२।११७ ॥ [दक्षिणोत्तरात्] दक्षिणश्च उत्तरश्च = दक्षिणोत्तरम्, तस्मात् । [च] च प्रथमा सि । [अतस् ] अतस् प्रथमा सि । दक्षिणशब्दः काले न संभवतीति दिग्देशवृत्तिर्गह्यते । [दक्षिणतो रमणीयम् ] दक्षिणा दिग-देशो वा रमणीयः = दक्षिणतो रमणीयम् । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [ दक्षिणत आगतः] दक्षिणस्या दिश आगतः, दक्षिणस्मात् देशात् आगतः = दक्षिणत आगतः । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [दक्षिणतो वसति] दक्षिणस्यां दिशि वसति, दक्षिणस्मिन् देशे वसति = दक्षिणतो वसति । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [उत्तरतो रमणीयम् ] उत्तरा दिग्-देश:-कालो वा रमणीयः = उत्तरतो रमणीयम् । अनेन अतस्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [उत्तरत आगतः] उत्तरस्या दिश आगतः, उत्तरस्मात् देशात् कालाद्वा आगतः = उत्तरत आगतः । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । [उत्तरतो वसति] उत्तरस्यां दिशि वसति, उत्तरस्मिन् देशे काले वा वसति = उत्तरतो वसति । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । [परतो रमणीयम् ] परा दिग्-देशः-कालो वा रमणीयः = परतो रमणीयम् । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [परत आगतः] परस्या दिश आगतः, परस्मात् देशात् कालाद्वा आगतः = परत आगतः । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । [परतो वसति] परस्यां दिशि वसति, परस्मिन् देशे काले वा वसति = परतो वसति । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । [अवरतो रमणीयम् ] अवरा दिग्-देशः-कालो वा रमणीयः = अवरतो रमणीयम् । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । [अवरत आगतः] अवरस्या दिश आगतः, अवरस्मात् देशात् कालाद्वा आगतः = अवरत आगतः । अनेन अतस्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [अवरतो वसति] अवरस्यां दिशि वसति, अवरस्मिन् देशे काले वा वसति = अवरतो वसति । अनेन अतसूप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । अवः, अवस्तात्, अवरतः, अवरस्तात् एवं चाऽवरशब्दस्य चातूरूप्यं भवति । अकारस्तसोऽस्य अतसो भेदार्थः, तेन अतः अतस्तात् 'क्वेहा-ऽमा-त्र-तसस्त्यच्' (६।३।१६) इति त्यच् न भवति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy