________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
[च] च प्रथमा सि । [ एषाम् ] इदम् षष्ठी आम् ।
[पुरो रमणीयम्, पुरस्ताद्रमणीयम् ] पूर्वा दिग्-देश:-कालो वा रमणीयः = पुरः-पुरस्ताद्रमणीयम् । अनेन अस्अस्तात्प्र०-पूर्वशब्दस्य "पुर्"देशश्च ।
[पुर आगतः, पुरस्तादागतः ] पूर्वस्या दिश आगतः, पूर्वात् देशात् कालाद्वा आगतः = पुरः-पुरस्तादागतः । अनेन अस्-अस्तात्प्र०-पूर्वशब्दस्य "पुर्"देशश्च ।
[पुरो वसति, पुरस्ताद्वसति] पूर्वस्यां दिशि वसति, पूर्वस्मिन् देशे काले वा वसति = पुरः-पुरस्ताद् वसति । अनेन अस्-अस्तातूप्र०-"पुर्"देशश्च ।
[अवो रमणीयम्, अवस्ताद्रमणीयम् ] अवरा दिग्-देश:-कालो वा रमणीयः = अव:-अवस्ताद्रमणीयम् । अनेन अस्-अस्तात्प्र०-अवरशब्दस्य "अव्"देशश्च । __ [अव आगतः, अवस्तादागतः] अवरस्या दिश आगतः, अवरस्मात् देशात् कालाद्वा आगतः = अव:अवस्तादागतः । अनेन अस्-अस्तात्प्र०-अवरशब्दस्य "अव्"देशश्च ।
[अवो वसति, अवस्ताद्वसति] अवरस्यां दिशि वसति, अवरस्मिन् देशे काले वा वसति = अव:-अवस्ताद्वसति । अनेन अस्-अस्तात्प्र०-अवरशब्दस्य "अ"देशश्च । .. [अधो रमणीयम्, अधस्ताद्रमणीयम् ] अधरा दिग्-देश:-कालो वा रमणीयः = अध:-अधस्ताद्रमणीयम् । अनेन अस्-अस्तात्प्र०-अधरशब्दस्य "अध्"आदेशश्च । ____ [अध आगतः, अधस्तादागतः] अधरस्या दिश आगतः, अधरात् देशात् कालाद्वा आगतः = अध:-अधस्तादागतः । . अनेन अस्-अस्तात्प्र०-अधरशब्दस्य "अध्"आदेशश्च ।
[अधो वसति, अधस्ताद्वसति] अधरस्यां दिशि वसति, अधरस्मिन् देशे काले वा वसति = अधः-अधस्ताद्वसति । अनेन अस्-अस्तात्प्र०-अधरशब्दस्य "अध्"आदेशश्च ॥छ।। .
परा-ऽवरात् स्तात् ॥ ७।२।११६ ॥ [पराऽवरात्] परश्च अवरश्च = पराऽवरम्, तस्मात् । [स्तात् ] स्तात् प्रथमा सि । [परस्तांद्रमणीयम् ] परा दिग्-देश:-कालो वा रमणीयः = परस्ताद्रमणीयम् । अनेन स्तात्प्र० ।[परस्तादागतः] परस्या दिश आगतः, परस्तात् देशात् कालाद्वा आगतः = परस्तादागतः । अनेन स्तात्प्र० । [परस्तावसति ] परस्यां दिशि वसति, परस्मिन् देशे काले वा वसति = परस्तावसति । अनेन स्तात्प्र० । [अवरस्ताद्रमणीयम् ] अवरा दिग्-देशः-कालो वा रमणीयः = अवरस्ताद्रमणीयम् । अनेन स्तात्प्र० । [अवरस्तादागतः] अवरस्याः दिश आगतः, अवरात् देशात् कालाद्वा आगतः = अवरस्तादागतः । अनेन स्तात्प्र० । [अवरस्ताद्वसति] अवरस्यां दिशि वसति, अवरस्मिन् देशे काले वा वसति = अवरस्ताद्वसति । अनेन स्तात्प्र०
॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org