SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ इह तु [ द्विस्तावान् प्रासादः, द्विस्तावान् भवति ] भवत्यर्थो गम्यः । द्वौ वारौ भवनस्य = द्विः । अनेन सुच्प्र० स् --ति अयमभिप्रायो वारप्रतिपादको धातुप्रयोगो नास्ति, कथं प्रत्ययो भवतीत्याह - गम्यमानेऽपि वारे भवति । चकारः 'सुचो वा' (२।३।१० ) इत्यत्र विशेषणार्थः ॥छ । एकात् सकृच्चास्य ।। ७।२।१११ ॥ [ एकात् ] एक पञ्चमी ङसि । [ सकृत् ] सकृत् प्रथमा सि । [च] च प्रथमा सि । [ अस्य ] इदम् षष्ठी ङ्स् । 'आ द्वेरः' (२।१।४१) म० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । 'अनक्' (२१३६) इद० अ । 'टाङसोरिन-स्यौ' (१।४।५) "स्य " देश: । १४३ = [ सकृद् भुङ्क्ते ] एक मण्ड्यते । एकवारं भुङ्क्ते सकृत् । अनेन सुच्प्र०स् एकस्य "सकृत् " देशश्च । ‘पदस्य' (२।१५८९) इति सुचो लोपः । एको वारो यथा भवत्येवं भुङ्क्ते इत्यर्थः । 'क्रियाविशेषणात् ' (२।२।४१) अम् । बहोर्धाऽऽन्ने ॥ ७।२।११२ ॥ [ बहोः ] बहु पञ्चमी ङसि । [धा ] धा प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ आसन्ने] आ 'षद्लूं विशरण - गत्यवसादनेषु' (९६६) षद् । 'षः आसीदति स्म = आसन्नः । 'गत्यर्था - ऽकर्मक- पिब-भुजेः' (५/१/११) क्तप्र० न०, तस्मिन् । [ बहुधा भुङ्क्ते ] बहव आसन्ना वारा अस्य = बहुधा भुङ्क्ते । अनेन धाप्र० । [ बहुधा पिबति ] बहव आसन्ना वारा अस्य = बहुधा पिबति । अनेन धाप्र० । [ बहुकृत्वो मासस्य भुङ्क्ते ] बहवो वारा अस्य । 'वारे कृत्वस्' (७|२|१०९) कृत्वस्प्र० । मासस्य इत्यत्र 'नवा सुज: काले' (२२/९६ ) इति सप्तमी वा भवतीति द्वितीयपक्षे 'शेषे' (२२८१) षष्ठी । भुङ्क्ते । आसन्नवारेऽपि वारमात्रे द्योत्ये कृत्वस् प्रत्ययो भवत्येव । Jain Education International सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२।३।९८) सद् । त । 'रदादमू०' (४/२/६९) द्-त० → [ बहुकृत्वोऽह्नो भुङ्क्ते ] बहवो वारा अस्य = बहुकृत्व (:) । 'वारे कृत्वस्' (७|२|१०९) कृत्वस्प्र० । अ भुङ्क्ते । 'नवा सुजधैः काले' (२२९६) वा सप्तमी । आसन्नता तु प्रकरणादिना गम्यते । [ गणधा भुङ्क्ते ] गणस्य आसन्ना वारा अस्य = गणधा भुङ्क्ते । मतान्तरे धाप्र० । [ तावद्धा भुङ्क्ते ] तावत आसन्ना वारा अस्य = तावद्धा भुङ्क्ते । मतान्तरे धाप्र० छ दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा - पञ्चमी - सप्तम्याः ॥ ७।२।११३ ॥ [ दिक्शब्दात् ] दिशि प्रसिद्धः शब्दः, यद्वा दिशि दृष्टः शब्दः = दिक्शब्दस्तस्मात् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy