________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१४१
[ऐकध्यं करोति, एकधा करोति] अनेकमेकं करोति = ऐकध्यम्-एकधा करोति । अनेन ध्यमप्र० → ध्यम् । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः ऐ । पक्षे-'संख्याया धा' (७।२।१०४) धाप्र० । अकार उच्चारणार्थः ॥छा।
द्वि-त्रेधमजेधौ वा ॥ ७।२।१०७ ॥ [द्वित्रेः] द्विश्च त्रिश्च = द्वित्रि, तस्मात् । [धमत्रेधौ] धमञ् च एधा च = धमजेधौ । [वा] वा प्रथमा सि ।
[द्वैधम, द्वेधा, द्विधा भुङ्क्ते] द्वाभ्यां प्रकाराभ्यां = द्वैधम्, द्वेधा । अनेन धमप्र० → धम् - एधाप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७४।६८) इलुक् । एवम्-द्विधा । 'संख्याया धा' (७।२।१०४) धाप्र० । भुङ्क्ते ।
[त्रैधम्, त्रेधा, त्रिधा भुङ्क्ते] त्रिभिः प्रकारैः = त्रैधम्, त्रेधा । अनेन धमञ्प्र० → धम्-एधाप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । द्वितीये-'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम्-त्रिधा । 'संख्याया धा' (७।२।१०४) धाप्र० । भुङ्क्ते ।
[द्वैधम्, द्वेधा, द्विधा करोति] एकं राशि द्वौ करोति = द्वैधम्-द्वेधा । अनेन धमप्र० → धम्-एधाप्र० । 'वृद्धिः स्वरे.' (७४।१) वृद्धिः ऐ । द्वितीये-'अवर्णेवर्णस्य' (७४।६८) इलुक । एवम्-द्विधा । 'विचाले च' (७।२।१०५) धाप्र० । करोति ।
[त्रैधम्, त्रेधा, त्रिधा करोति ] एकं राशि त्रीन् करोति = त्रैधम्, त्रेधा । अनेन धमप्र० → धम्-एधाप्र० । '' 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । द्वितीये-'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम्-त्रिधा । "विचाले च' (७।२।१०५) धाप्र० । करोति ॥छ।
तद्वति धण् ॥ ७।२।१०८ ॥ [तद्वति] तद् । तौ-प्रकारविचालावौँ अस्य स्तः सः = तद्वान्, तस्मिन् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → वत्वम् ।
[धण्] धण् प्रथमा सि ।
[वैधानि] द्वौ प्रकारौ विभागौ वा एषां = द्वैधानि । अनेन धणप्र० →ध । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।।
[त्रैधानि] त्रयः प्रकारा विभागा वा एषां = वैधानि । अनेन धण्प्र० → ध । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० , शि० , इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । "नि दीर्घः' (१।४।८५) दीर्घः ।
[राजद्वैधानि ] द्वैधानि पूर्ववत् । राज्ञो द्वैधानि = राजद्वैधानि । [राजनैधानि] त्रैधानि पूर्ववत् । राज्ञस्त्रैधानि = राजत्रैधानि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org