SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ तदा ] तस्मिन् काले = तदा । अनेन दाप्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [सर्वदा] सर्वस्मिन् काले = [ एकदा ] एकस्मिन् काले [ अन्यदा ] अन्यस्मिन् काले = अन्यदा । अनेन दाप्र० । [ क्व देशे ] कस्मिन् = क्व । 'क्व - कुत्रा - ऽत्रेह' (७२।९३) "क्व" निपात्यते ॥छ । सदा-ऽधुनेदानीं - तदानीमेतर्हि ॥ ७।२।९६ ॥ [ सदाऽधुनेदानींतदानीमेतर्हि ] सदा च अधुना च इदानीं च तदानीं च एतर्हिश्च = सदाऽधुनेदानींतदानीमेतर्हि । प्रथमा सि । सूत्रत्वात् (लोपः) । [ सदा सर्वदा ] सर्वस्मिन् काले = सदा । अनेन दाप्र०- सर्वशब्दस्य सभावो निपात्यते । सर्वदेति पूर्वेण । अधुना । अनेन धुनाप्र० - इदम्स्थाने अकारादेशश्च निपात्यते । इदानीम् । अनेन दानीम्प्र० - इदम्स्थाने इकारादेशश्च निपात्यते । [ तदानीम् ] तस्मिन् काले = तदानीम् । अनेन दानीम्प्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [ एतर्हि ] अस्मिन् काले = एतर्हि । अनेन हिप्र० - इदम्स्थाने एतदेशश्च निपात्यते ॥छ|| सद्यो ऽद्य परेद्यव्यह्नि ॥ ७२९७ ॥ [ सद्योऽद्यपरेद्यवि ] सद्यस् च अद्यश्च परेद्यविश्च सद्योऽद्यपरेद्यवि । प्रथमा जस् । सूत्रत्वात् (लोपः) । [ अह्नि] अहन् सप्तमी ङि । [ सद्यः] समानेऽह्नि सद्यः । अनेन द्यस्प्र० - समानस्य च सभावो निपात्यते । [ अद्य ] अस्मिन्नहनि = अद्य । अनेन द्यप्र० - इदम्शब्दस्य अकारादेशश्च निपात्यते । [ परेद्यवि ] परस्मिन्नहनि परेद्यवि । अनेन एद्यविप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ पूर्वा ऽपरा - ऽधरोत्तरा - ऽन्या - ऽन्यतरेतरादेद्युस् ॥ ७२९८ ॥ [ अधुना ] अस्मिन् काले [ इदानीम् ] अस्मिन् काले = = = = Jain Education International सर्वदा । अनेन दाप्र० । एकदा । अनेन दाप्र० । = [ अपरेद्युः ] अपरस्मिन्नहनि 'अव्ययस्य' (३|२|७) सिलुप् । [ पूर्वाऽपराऽधरोत्तराऽन्याऽन्यतरेतरात् ] पूर्वश्च अपरश्च अधरश्च उत्तरश्च अन्यश्च अन्यतरश्च इतरश्च = पूर्वाऽपराऽधरोत्तराऽन्याऽन्यतरेतरम्, तस्मात् । [एद्युस्] एद्युस् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् । [पूर्वेद्युः ] पूर्वस्मिन्नहनि 'अव्ययस्य' (३|२|७) सिलुप् । = = = पूर्वेद्युः । अनेन एद्युस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । अपरेद्युः । अनेन एस्प्र० । 'अवर्णेवर्णस्य' (७७४२६८) अलुक् । प्रथमा सि । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy