________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१३५
[क्व] किम् । कस्मिन् = क्व । 'सप्तम्याः ' (७।२।९४) त्रप्र० । अनेन किमः क्वादेश:-त्रपश्च अकारः । [कुत्र ] किम् । कस्मिन् = कुत्र । 'सप्तम्या:' (७।२।९४) त्रप्प्र०-किम: "कु"देशश्च ।
[अत्र ] एतद् । एतस्मिन् = अत्र । 'सप्तम्याः' (७२।९४) त्रप्प्र० । अनेन एतद्स्थाने "अ" । कुत्सितोऽल्पोऽज्ञातो वा एतस्मिन् = एतकस्मिन् । 'त्यादि-सर्वादेः स्वरेष्वान्त्यात् पूर्वोऽक' (७३।२९) अक् । इयं वाक्यनिष्पत्तिः । एतकस्मिन् = अत्र । 'सप्तम्याः' (७।२।९४) त्रप्र० →त्र । अनेन एतकस्थाने अ०।
[इह] इदम् । अस्मिन् = इह । 'सप्तम्या:' (७।२।९४) त्रप्र० । अनेन इदमस्थाने इकारादेशः-त्रपश्च हादेशः । इमकस्मिन् = इह । 'सप्तम्याः' (७।२।९४) त्रप्र० । अनेन इमकस्थाने इ-त्रपश्च हादेशः ।
[क्व भवान्, कुत्र भवान् ] को भवान् = क्व-कुत्र भवान् । [अत्र भवान्, इह भवान् ] एषो भवान् = अत्र-अयं भवान्, इह ।। [क्वायुष्मान्, कुत्रायुष्मान् ] क आयुष्मान् = क्व-कुत्रायुष्मान् । [अत्रायुष्मान्, इहायुष्मान्] एष आयुष्मान् = अत्रायुष्मान्, अयमायुष्मान् = इहायुष्मान् । एवमग्रेऽपि अनेन पूर्ववन्निपात्यते ॥छ।
सप्तम्याः ॥ ७।२।९४ ॥ [सप्तम्याः ] सप्तमी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । [कुत्र ] किम् । कस्मिन् = कुत्र । अनेन त्रप्प्र० । 'क्व-कुत्रा-ऽत्रेह' (७।२।९३) किमः स्थाने "कु"देशः । [सर्वत्र ] सर्वस्मिन् = सर्वत्र । अनेन त्रप्प्र० → त्र ।
[तंत्र ] तद् । तस्मिन् = तत्र । अनेन त्रप्र० →त्र । "आ द्वेरः' (२।१।४२) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
[बहुत्र ] बहुषु = बहुत्र । अनेन त्रप्प्र० → त्र । पकारः पुंवद्भावार्थ:
[बहुत्र ] बहु 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । बह्वीषु = बहुत्र । अनेन त्रप्प्र० → त्र । 'क्यङ्-मानिपित्तद्धिते' (३।२।५०) पुंवत् ॥छ।।
किम्-यत्-तत्-सर्वैका-ऽन्यात् काले दा ॥ ७।२।९५ ॥ [किम्यत्तत्सर्वैकाऽन्यात् ] किम् च यच्च तच्च सर्वश्च एकश्च अन्यश्च = किम्यत्तत्सर्वैकाऽन्यत्, तस्मात् । [काले] काल सप्तमी ङि । [दा ] दा प्रथमा सि । सूत्रत्वात् सिलुप् । [कदा ] कस्मिन् काले = कदा । अनेन दाप्र० । 'किम: कस्तसादौ च' (२।१।४०) किम्० → क० ।
[यदा ] यस्मिन् काले = यदा । अनेन दाप्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org