SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३४ [ स आयुष्मान्, तत आयुष्मान् ] स आयुष्मान्, ततः । [ स दीर्घायुः, ततो दीर्घायुः ] स दीर्घायुः, ततः । [ स देवानांप्रियः, ततो देवानांप्रियः ] स देवानांप्रियः, ततः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ अयमायुष्मान् इत आयुष्मान् ] अयमायुष्मान् इतः । अनेन तस्प्र० । [ क आयुष्मान्, कुत आयुष्मान् ] क आयुष्मान् कुतः । अनेन तस्प्र० । भवत्वित्युकारः, सर्वादिपरिग्रहार्थ:, तेन मतुशत्रन्तव्युदासः || || त्रप् च ॥ ७।२।९२ ॥ [त्रप्] त्रप् प्रथमा सि । [च] च प्रथमा सि । [ स भवान्, तत्र भवान् ] स भवान्, तत्र । [ तौ भवन्तौ, तत्र भवन्तौ ] तौ भवन्तौ, तत्र । [ ते भवन्तः, तत्र भवन्तः ] ते भवन्तः, तत्र । [ तं भवन्तम्, तत्र भवन्तम् ] तं भवन्तम्, तत्र । [ तेन भवता, तत्र भवता] तेन भवता, तत्र । [ तस्मै भवते, तत्र भवते ] तस्मै भवते, तत्र । [ तस्माद्भवतः, तत्र भवतः ] तस्माद् भवतः, तत्र । [ तस्य भवतः, तत्र भवतः ] तस्य भवतः, तत्र । [तस्मिन् भवति, तत्र भवति ] तस्मिन् भवति, तत्र । सर्वत्र अनेन त्रप्प्र० । योगविभागश्चकारेण पुनस्तस्विधानार्थः, तेन सप्तम्यन्तादपि तस् भवति । [ततो भवति, तत्र भवति ] तस्मिन् भवति = ततो भवति, तत्र भवति । अनेन तस्- त्रप् च प्रत्ययः । अन्यथा हि 'ततः सप्तम्याः' (७|२|९४ ) इति परत्वात् त्रबेव स्यात् । केचित्तु भवच्छब्दस्यामन्त्रणे सौ भो इत्यादेशं कुर्वन्ति [ ततो भोः, तत्र भोः ] भवत् आमन्त्रणे सि । तन्मते भवच्छब्दस्य स्थाने भोस् इत्यस्य सिद्धत्वात् । केचित्तु भवदाद्ययोगेऽपि त्रप् - तसाविच्छन्ति [ क्व गमिष्यसि ] किम् । कस्मिन् गमिष्यसि = क्व । तन्मते अनेनैव त्रप्प्र० । 'क्व - कुत्रा - ऽत्रेह' (७|२|९३) किम्स्थाने क्व त्रप्स्थाने अ० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अग्रे लिखितं वाक्यं ज्ञेयं मूलप्रतौ ॥छ | Jain Education International 'इतोऽतः कुतः ' ( ७।२।९० ) "इ"देश: । इतोऽतः कुतः ' ( ७२ ९० ) " कु" देश: । क्व - कुत्रा - ह ॥ ७।२।९३ ॥ [ क्वकुत्राऽत्रेह ] क्वश्च कुत्रश्च अत्रश्च इहश्च = क्वकुत्राऽत्रेह । प्रथमा सि । सूत्रत्वात् (लोपः) । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy