________________
१३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पित् ] प् इदनुबन्धो यस्य सः = पित् । प्रथमा सि । [ तस्] तस् प्रथमा सि । पञ्चम्या इत्यनुवर्तते । [कुतः] किम् । कस्मात् = कुतः । अनेन तस्प्र० । 'इतोऽतः कुतः' (७।२।९०) किम्० → कु० । [सर्वतः] सर्वस्मात् = सर्वतः । अनेन तस्प्र० । [विश्वतः] विश्वस्मात् = विश्वतः । अनेन तस्प्र० ।
[यतः] यस्मात् = यतः । अनेन तस्प्र० । 'आवरः' (२।१।४२) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
[ततः] तस्मात् = ततः । अनेन तस्प्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
[बहुतः] बहुभ्यः = बहुतः । अनेन तस्प्र० । किमः सर्वादित्वेऽपि व्यादिवर्जनान प्राप्नोतीति पृथगुपादानम् । [द्वितः] द्वाभ्याम् = द्वितः । [त्वत्तः] त्वत् = त्वत्तः । [मत्तः] मत् = मत्तः । [युष्मत्तः] युष्मत् = युष्मत्तः । [अस्मत्तः] अस्मत् = अस्मत्तः । सर्वत्र 'अहीय-रुहोऽपादाने' (७।२।८८) इत्यनेन तसुप्र० → तस् । अनेन हि तस्विधाने 'आ द्वेरः' (२११२४१) इत्यत्वं स्यात् । पित्करणं पुंवद्भावार्थम् ।
[बहुतः] बहु । 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । बह्वीभ्यः = बहुतः । अनेन तस्प्र० । 'क्यङ्-मानिपित्तद्धिते' (३।२।५०) पुंवत्-ङीगता इत्यर्थः ।
न तु अपादान एव विहितपञ्चम्यन्तात्, किन्तु पञ्चम्यन्तमात्रादयं विधिः । [सर्वतो हीयते] सर्वस्मात् = सर्वतो हीयते । अत्र अपादाने पञ्चमी । [ सर्वतो रोहति ] सर्वस्मात् = सर्वतो रोहति । [सर्वतो हेतोः] सर्वस्मात् = सर्वतो हेतोः । वाक्ये 'सर्वादेः सर्वाः' (२।१।११९) पञ्चमी ।
[सर्वतः पूर्वम् ] सर्वस्मात् = सर्वतः पूर्वम् । 'प्रभृत्यन्याऽर्थ-दिक्शब्द-बहिरारादितरैः' (२।२।७५) पञ्चमी । सर्वत्र अनेन तस्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ॥छ।।
इतोऽतः-कुतः ॥ ७।२।९० ॥ [इतोऽतःकुतः] इतस् च अतस् च कुतस् च = ते । जस् । सूत्रत्वात् (लोपः) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org