________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१३१
अतिक्रम्य ग्रहणमतिग्रहः - [वृत्ततोऽतिगृह्यते ] वृत्तेनातिगृह्यते = वृत्ततोऽतिगृह्यते । साधुवृत्तोऽन्योऽनतिक्रम्य वृत्तेन गृह्यते साध्वाचार इति सम्भाव्यत इत्यर्थः । अतिशयेन वा ग्रहणमतिग्रहः । तत्रातिशयेन गृह्यत इत्यर्थः ।
अचलनमक्षोभणमव्यथा अभीतिर्वा - [वृत्ततो न व्यथते] वृत्तेन न व्यथते = वृत्ततो न व्यथते । अनेन तसुप्र० → तस् । वृत्तेन न चलति, न बिभेति चेत्यर्थः ॥छ।
पाप-हीयमानेन ॥७।२।८६ ॥
[पापहीयमानेन] पापं च हीयमानं च = पापहीयमानम्, तेन । [वृत्ततः पापः ] वृत्तेन पापः = वृत्ततः पापः । [वृत्ततो हीयते ] वृत्तेन हीयते = वृत्ततो हीयते ।
[शब्दतो हीनः, स्वरतो वर्णतो वा] शब्देन हीयते, स्वरेण हीयते = शब्दतः, स्वरतः । वर्णेन हीयते = वर्णतः । सर्वत्र अनेन तसुप्र० → तस् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ॥छ।।
प्रतिना पञ्चम्याः ॥ ७।२८७ ॥ [प्रतिना] प्रति तृतीया टा । 'टः पुंसि ना' (१।४।२४) ना । [पञ्चम्याः ] पञ्चमी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् ।
[अभिमन्युरर्जुनात् प्रति अभिमन्युरर्जुनतः प्रति ] अभिमन्युरर्जुनात् प्रति = अभिमन्युरर्जुनतः प्रति । अनेन तसुप्र० → तस् । अर्जुनस्य प्रतिनिधिरित्यर्थः ।
[माषानस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति ] माषानस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति . यच्छति । अनेन तसुप्र० तस् ।
अहीय-रुहोऽपादाने ॥ ७।२८८ ॥ [अहीयरुहः ] अहीयश्च रुह् च = अहीयरुह्, तस्मात् । [अपादाने] अपादान सप्तमी ङि । [ग्रामादागच्छति, ग्रामत आगच्छति ] ग्रामादागच्छति = ग्रामत आगच्छति । अनेन तसुप्र० → तस् । [चौराद्विभेति, चौरतो बिभेति ] चौराद्विभेति = चौरतो बिभेति । अनेन तसुप्र० → तस् ।
[सार्थात् हीयते] 'ओहांक् त्यागे' (११३१) हा । जहाति सार्थो देवदत्तः स एवं विवक्षते नाहं जहामि किन्तु सार्थात् स्वयमेव हीयते देवदत्त इत्यर्थः । [भूमित उज्जिहीते] भूमेरुज्जिहीते = भूमितः । अनेन तसुप्र० → तस् । उज्जिहीते - उत्तिष्ठते इत्यर्थः ॥छ।।
किमद्वयादिसर्वाद्यवैपुल्यबहोः पित् तस् ॥ ७।२।८९ ॥ [किमद्वयादिसर्वाद्यवैपुल्यबहोः] द्विरादिर्यस्य सः = व्यादिः, न व्यादिरद्व्यादिः, सर्व आदिर्यस्य सः = सर्वादिः, अव्यादिश्चासौ सर्वादिश्च = अद्वयादिसर्वादिः, वैपुल्ये बहु = वैपुल्यबहु, न वैपुल्यबहु = अवैपुल्यबहु । किम् च । अव्यादिसर्वादिश्च अवैपुल्यबहु च = किमव्यादिसर्वाद्यवैपुल्यबहु, तस्मात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org