________________
१३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अग्रतः] अग्रे = अग्रतः । [वक्षस्तः ] वक्षसि = वक्षस्तः । [पार्श्वतः] पार्वे = पार्श्वतः ।। [पृष्ठतः] पृष्ठे = पृष्ठतः । [मुखतः ] मुखे = मुखतः । [सर्वतः] सर्वस्मिन् = सर्वतः । [विश्वतः] विश्वस्मिन् = विश्वतः । [उभयतः] उभयस्मिन् = उभयतः । [अन्यतः ] अन्यस्मिन् = अन्यतः । [पूर्वतः] पूर्वस्मिन् = पूर्वतः । [एकतः] एकस्मिन् = एकतः । [इतः ] इदम् । अस्मिन् = इतः । अनेन तसुप्र० → तस् । पृषोदरादित्वात् इनिपातः । [प्रमाणतः] प्रमाणेन प्रमाणाद्वा = प्रमाणतः । [पृष्ठतोऽङ सेवेत ] पृष्ठेन = पृष्ठतः । अनेन तसुप्र० → तस् । [पार्श्वतः ] पाइँन = पार्श्वत: । अनेन तसुप्र० → तस् । [इतः] अनेन = इतः । अनेन तसुप्र० → तस् । [स्वरतो वर्णतो वा] स्वरेणः = स्वरतः वर्णतः । अनेन तसुप्र० → तस् । [शब्दतः] शब्देन = शब्दतः । [अर्थतः] अर्थेन = अर्थतः । [अभिधानतः] अभिधानेन = अभिधानतः ।। [यतः] येन यस्मिन् वा = यतः ।
[ततः] तेन तस्मिन् वा = ततः । अनेन तसुप्र० → तस् । पृषोदरादित्वात् दलुप् निपातः । 'आ ढेरः' (२२११४१) इति तु न तसादावित्यधिकारात् । अयं तु उदनुबन्धः ॥छ।
क्षेपा-ऽतिग्रहा-ऽव्यथेष्वकर्तुस्तृतीयायाः ॥ ७।२।८५ ॥ [क्षेपाऽतिग्रहाऽव्यथेषु] क्षेपश्च अतिग्रहश्च अव्यथश्च = क्षेपाऽतिग्रहाऽव्यथाः, तेषु । [अकर्तुः] न कर्ता = अकर्ता, तस्मात् । [ तृतीयायाः] तृतीया पञ्चमी ङसि । 'आपो ङितां यै-यास्-यास्-याम्' (१।४।१७) ङसि० → यास् । [वृत्ततः क्षिप्तः] वृत्तेन क्षिप्तः = वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org