________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१२९
उकारः 'अधणतस्वाद्या शसः' (१९३२) इत्यत्र विशेषणार्थः ।
[देवा अर्जुनतोऽभवन् ] अर्जुनस्य पक्षे = अर्जुनतः । अनेन तसुप्र० → तस् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[आदित्यः कर्णतोऽभवत् ] कर्णस्य पक्षे = कर्णतः । अनेन तसुप्र० → तस् ।
अर्जुन-कर्णयोर्विवदमानयोरर्जुनस्य पक्षे देवाः, कर्णस्य पक्षे आदित्योऽभवदित्यर्थः । . [यत्तोऽभवत् ] यस्य पक्षे = यत्तः । अनेन तसुप्र० → तस् । तसु(सोः) उकारानुबन्धत्वात् 'आ द्वेरः' (२।१।४१) इति न भवति ।
[तत्तोऽभवत् ] तस्य पक्षे = तत्तः । अनेन तसुप्र० → तस् ।। [त्वत्तोऽभवत् ] तव पक्षे = त्वत्तोऽभवत् । अनेन तसुप्र० → तस् । [मत्तोऽभवत् ] मम पक्षे = मत्तोऽभवत् । अनेन तसुप्र० → तस् ॥छ।।
रोगात् प्रतीकारे ॥ ७।२।८२ ॥ [रोगात् ] रोग पञ्चमी ङसि । [प्रतीकारे ] प्रतीकार सप्तमी ङि ।
[प्रवाहिकातः कुरु] प्र 'वहीं प्रापणे' (९९६) वह । प्रवहणं = प्रवाहिका-प्रोह्यतेऽनयेति वा । 'नाम्नि पुंसि च' (५।३।१२१) णकप्र० → अक । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । प्रवाहिकायाः प्रतीकारः = प्रवाहिकातः । अनेन तसुप्र० → तस् ।
[प्रच्छर्दिकातः कुरु ] प्र 'छर्दण् वमने' (१६५९) छर्ट्स । प्रच्छर्दनं-प्रच्छद्यतेऽनयेति वा = प्रच्छदिका । 'नाम्नि पुंसि च' (५।३।१२१) णकप्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । प्रच्छर्दिकायाः प्रतीकारः = प्रच्छर्दिकातः । अनेन तसुप्र० → तस् । अस्य रोगस्य चिकित्सां कुर्वित्यर्थः ॥छ।।
पर्यभेः सर्वोभये ॥ ७।२।८३ ॥ [पर्यभेः] परिश्च अभिश्च = पर्यभिस्तस्मात् । [ सर्वोभये] सर्वश्च उभयश्च = सर्वोभयम्, तस्मिन् । [परितः ] परि - सर्वस्मात् = परितः । अनेन तसुप्र० → तस् । सर्वत इत्यर्थः । [अभितः ] अभि - उभयस्मात् = अभितः । अनेन तसुप्र० → तस् । उभयत इत्यर्थः ॥छ।
आद्यादिभ्यः ॥ ७।२८४ ॥ [आधादिभ्यः] आदिरादिर्येषां ते = आद्यादयः, तेभ्यः = आद्यादिभ्यः । पञ्चमी भ्यस् । [आदितः] आदौ आदेर्वा = आदितः । [मध्यतः] मध्ये = मध्यतः । [अन्ततः] अन्ते = अन्ततः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org