________________
१२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[आढ्यचरः] पूर्वं भूतः = भूतपूर्वः । भूतपूर्व आढ्यः = आढ्यचरः । अनेन प्चरट्प्र० → चर । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ।
[दर्शनीयचरः] भूतपूर्वो दर्शनीयः = दर्शनीयचरः । अनेन प्चरटप्र० → चर । प्रथमा सि । 'सो रुः' (२।१।७२) । स० → र० ।
टकारो ङ्यर्थः । पकारः पुंवद्भावार्थः । यथा
[आढ्यचरी] आढ्या भूतपूर्वा = आढ्यचरी । अनेन प्चरटप्र० → चर । 'क्यङ्-मानि पित्तद्धिते' (३।२।५०) पंवद्भावः । 'अणजेयेकण-न-स्न-टिताम्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ।
[दर्शनीयचरी] दर्शनीया भूतपूर्वा = दर्शनीयचरी । अनेन प्चरट्प्र० नेचर । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
भूतशब्दो वर्तमानेऽप्यस्ति । पूर्वशब्दो दिगादावपीति अतिक्रान्त-कालप्रतिपत्त्यर्थमुभयोरुपादानम् । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वत्वेऽयं प्रत्यय इतीह न भवति "अर्जुनो माहिष्मत्यां भूतपूर्वः" ॥छ।।
गोष्ठादीनञ् ॥ ७।२७९ ॥ [गोष्ठात् ] गोष्ठ पञ्चमी ङसि । [ईनञ्] ईनञ् प्रथमा सि ।
[गौष्ठीनो देशः] गोष्ठ । गोष्ठो भूतपूर्वः = गौष्ठीनो देशः । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
षष्ठ्या रूप्य-प्चरट् ॥ ७।२।८० ॥ [षष्ठ्याः ] षष्ठी पञ्चमी ङसि । [रूप्यप्चरट ] रूप्यश्च प्चरट् च = रूप्यप्चरट् । प्रथमा सि । भूतपूर्व इतीह प्रत्ययार्थः । [ देवदत्तरूप्यो गौः, देवदत्तचरः ] देवदत्तस्य भूतपूर्वः = देवदत्तरूप्यो गौः, देवदत्तचरः । अनेन रूप्यप्र०-प्चरटप्र० → चर । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
पकार-टकारौ पुंवद्भाव-डीप्रत्ययार्थौ ।
[देवदत्तचरी ] देवदत्ताया भूतपूर्वा = देवदत्तचरी । अनेन प्वरटप्र० → चर । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवत् । 'अणजेयेकण्०' (२।४।२०) ङी ॥छ।।
व्याश्रये तसुः ॥ ७।२।८१ ॥ [व्याश्रये] वि-आयूर्व० "श्रिग् सेवायाम्' (८८३) श्रि । 'विविधमाश्रयणं व्याश्रयस्तस्मिन् । यद्वा-नानापक्षाश्रयो व्याश्रयस्तस्मिन् । 'भू-,यदोऽल्' (५।३।२३) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[तसुः] तसु प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org