________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१२५
[अस्यवामीयं सूक्तम् ] अस्यवामशब्दोऽत्र सूत्रे(क्ते) अस्ति = अस्यवामीयं सूक्तम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कयानश्चित्रीयं साम] कयानश्चित्रशब्दोऽत्र साम्न्यस्ति = कयानश्चित्रीयं साम । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
यत एवामी अखण्डा अनुकरणशब्दा अत एव तेनैवानुकार्येणार्थेनार्थवत्त्वान्नामत्वे प्रथमान्ततायां प्रथमान्तात् प्रत्यय उत्पन्नः, अन्यथा वाक्यत्वात् अस्यवामशब्दात् प्रथमा न स्यात् । सूक्त-साम्नी ग्रन्थविशेषौ ॥छ।।
लुब वाऽध्याया-ऽनुवाके ॥ ७।२७२ ॥ [लुप्] लुप् प्रथमा सि । [वा] वा प्रथमा सि ।
[अध्यायाऽनुवाके] अध्यायश्च अनुवाकश्च = अध्यायाऽनुवाकम्, तस्मिन् । अनु 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । अनुब्रवीति = अनुवाकः । 'अच्' (५।१।४९) अच्प्र० → अ । 'न्य ङ्कद्ग-मेघाऽऽदयः' (४।१।११२) अनुवाकनिपात्यते ।
अध्याया-ऽनुवाकयोरर्थान्तरत्वात् पूर्वेण न प्राप्नोतीत्याह-अध्यायाऽनुवाकौ ग्रन्थविशेषौ । . [गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा] गर्दभाण्डशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा । अनेन ईयप्र० आनीयते-लुप्यते विकल्पेन ।
[दीर्घजीवितः, दीर्घजीवितीयः] दीर्घजीवितशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति दीर्घजीवितः, दीर्घजीवितीयः । . अनेन ईयप्र०-लुप् च विकल्पेन ।
[पलितस्तम्भः, पलितस्तम्भीयः] पलितस्तम्भशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति पलितस्तम्भः, पलितस्तम्भीयः । अनेन ईयप्र०-लुप् च वा । __[पलितः, पलितीयः] पलितशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति पलितः, पलितीयः । अनेन ईयप्र० आनीयतेविकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[स्तम्भः, स्तम्भीयः] स्तम्भशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति स्तम्भः, स्तम्भीयः । अनेन ईयप्र० आनीयतेविकल्पेन लप्यते च । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[उच्छिष्टः, उच्छिष्टीयः] उच्छिष्टशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति उच्छिष्टः, उच्छिष्टीयः । अनेन ईयप्र० आनीयतेविकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । __[ द्रुमपुष्पः, द्रुमपुष्पीयः] द्रुमपुष्पशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति द्रुमपुष्पः, द्रुमषुप्पीयः । अनेन ईयप्र० आनीयते-विकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
विमुक्तादेरण् ॥ ७।२७३ ॥ [विमुक्तादेः] विमुक्त आदिर्यस्य सः = विमुक्तादिः, तस्मात् । [अण्] अण् प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org