________________
१२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
पुष्करादेर्देशे ॥ ७।२७० ॥ [पुष्करादेः] पुष्कर आदिर्यस्य सः = पुष्करादिः, तस्मात् । [ देशे] देश सप्तमी ङि। [ पुष्करिणी] पुष्करं देशविशेषोऽस्यामस्ति = पुष्करिणी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [पद्मिनी] पद्मं देशविशेषोऽस्यामस्ति = पद्मिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पुष्करवान् हस्ती] पुष्करं करिकराग्रमस्यास्ति = पुष्करवान् हस्ती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् ।
यवासशब्दोऽब्जादौ पुष्करादौ चाधीतस्तत्र देशो(शे) इदं सूत्रं प्रवर्तते, औषधौ तु पूर्वसूत्रमिति विवेकः ।
अत्र गणपाठात् कुमुदिनी इत्येव प्राप्नोति कथं मत्प्रत्ययो भवतीत्याह - यद्वा अयमर्थः अत्र 'नड-शादाद् वलः' । (६।२।७५) इत्यनेन नड्वल-नड्वान्शब्दाभ्यां देश उच्यते, अतो देशे अभिधेये केन सूत्रेण प्रत्ययो भविष्यतीत्याशङ्कायामाह- [अत्रोत्तरं - 'नडकुमुद०' इत्यादिना चातुरथिकेन मतुना भविष्यति इति मध्यमवृत्तौ]
[कुमुद्वती सरसी] कुमुदान्यस्यां सन्ति । कुमुर्देनिवृत्ता । कुमुदानामदूरभवा । कुमुदानां निवासः = कुमुद्वती सरसी । [कुमुद्वान् हृदः] कुमुदान्यत्र सन्ति । कुमुदैनिवृत्तम् । कुमुदानां निवासः । कुमुदानामदूरभवः = कुमुद्वान् हृदः ।
[नड्वान्, नड्वलम्] नडा अत्र सन्ति । नडैनिवृत्तः । नडानां निवासः । नडानामदूरभवः = नड्वान् । 'नडकुमुद-वेतस-महिषाडित्' (६।२७४) डिद् मतुप्र० →. मत् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । एवम्-नड्वलमिति 'नड-शादाद् वलः' (६।२।७५) डिद् वलप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् ॥छ।।
सूक्त-साम्नोरीयः ॥७२७१ ॥ [सूक्तसाम्नोः] सूक्तं च साम च = सूक्तसाम्नी, तयोः = सूक्तसाम्नोः । सप्तमी ओस् । [ईयः] ईय प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[अच्छावाकीयम् ] अच्छ 'वचं भाषणे' (१०९६) वच् । अच्छं वक्तीति अच्छावाकः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । पृषोदरादित्वाद्दीर्घत्वम् । अच्छावाकशब्दोऽत्र सूक्तेऽस्ति = अच्छावाकीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । __ [मैत्रावरुणीयम् ] मैत्रश्च वरुणश्च = मैत्रावरुणम् । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आ । 'मैत्रावरुणशब्दोऽत्र सूत्रे(क्ते) अस्ति = मैत्रावरुणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[यज्ञायज्ञीयम् ] यज्ञायज्ञशब्दोऽत्र साम्न्यस्ति = यज्ञायज्ञीयम् । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[अशनापिपासीयम् ] अशनं च पिपासा च = अशनापिपासा । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आ । अशनापिपासाशब्दोऽत्र साम्न्यस्ति = अशनापिपासीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । - [वारतन्तवीयं साम] वारतन्तुशब्दोऽत्र साम्न्यस्ति = वारतन्तवीयं साम । अनेन ईयप्र० । 'अस्वयम्भुवोऽव' (७।४७०) अव् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org