________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१२३
[यवासिनी] 'युक् मिश्रणे' (१०८०) यु । यौतीति यवासः । 'यु-वलिभ्यामासः' (उणा० ५७४) आसप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । यवासोऽस्यामस्ति = यवासिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी ।
[सामवान् ] साम-वेदोऽस्यास्ति = सामवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → वत्वम् ।
[सोमवान् ] सोमोऽत्रास्ति = सोमवान् । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१९४) म० → वत्वम् ।
[अब्जवान्] अब्जान्यत्र सन्ति = अब्जवान् । 'तदस्याऽस्त्यस्मिन्निति०' (७।२।१) मतुप्र० - मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → वत्वम् ॥छ।।
हस्त-दन्त-कराज्जातौ ॥ ७।२।६८ ॥ [हस्तदन्तकरात्] हस्तश्च दन्तश्च करश्च = हस्तदन्तकरम्, तस्मात् । [जातौ ] जाति सप्तमी ङि ।
[हस्ती, हस्तवान् नरः] हस्तोऽस्यास्ति = हस्ती । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्हस्तवान् नरः । 'तदस्याऽस्त्यस्मिन्निति०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । - [दन्ती, दन्तवान् नरः] दन्तौ अस्य स्तः = दन्ती । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्दन्ता अस्य सन्ति = दन्तवान् नरः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् ।
[करी, करवान् नरः] करोऽस्यास्ति = करी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । एक्म्-करवान् नरः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् ॥छ।।
वर्णाद् ब्रह्मचारिणि ॥ ७।२।६९ ॥ [वर्णात्] वर्ण पञ्चमी ङसि ।
[ ब्रह्मचारिणि] ब्रह्मन् 'चर भक्षणे च' (४१०) चर् । ब्रह्म चरतीत्येवंशीलः = ब्रह्मचारी । 'व्रता-ऽऽभीक्ष्ण्ये' (५।१।१५७) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः, तस्मिन् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[वर्णी ब्रह्मचारीत्यर्थः] वर्णो ब्रह्मचर्यमस्यास्ति = वर्णी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । ब्रह्मचारीत्यर्थः । . [त्रैवर्णिको वर्णी] त्रि-वर्ण । त्रयो वर्णास्त्रिवर्णाः, तेषु भवः = त्रैवर्णिको वर्णीत्युच्यते । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । विधानसामर्थ्यादस्य न लुप् । 'प्रयोजनम्' (६४|११७) इति वा इकण् अस्य च प्राग्जितीयत्वाभावात् न 'द्विगोरनपत्ये०' (६।१।२४) इति लुप् । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति ।
[वर्णवान्] वर्णोऽस्यास्ति = वर्णवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → वत्वम् ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org