________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
११९
निन्द्य - [ककुदावर्ती ] ककुदे आवर्त्तः - ककुदमावर्त्तयति वा । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । ककुदावर्तोऽस्यास्ति = ककुदावर्ती । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१९१) नलुक् ।
[काकतालुकी] काक-तालु । काकस्य तालुनस्तुल्यः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७।१।१०८) कप्र० । काकतालुकं लाञ्छनविशेषे(षो)ऽस्यास्ति = काकतालुकी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[पुष्पफलवान् वृक्षः] पुष्पाणि च फलानि च = पुष्पफलानि । पुष्पफलान्यत्र सन्ति = पुष्पफलवान् वृक्षः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ।
[स्तनकेशवती] स्तनौ च केशाश्च = स्तनकेशम् । 'प्राणि-तूर्याङ्गाणाम्' (३।१।१३७) इति समाहारः । स्तनकेशमस्या अस्ति = स्तनकेशवती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तोपा०' (२।१।९४) म० → व० ।
[चित्रकललाटिकावती] चित्रकं च ललाटिका च = चित्रकललाटिके । चित्रकललाटिके अस्याः स्तः = चित्रकललाटिकावती । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तोपा०' (२।१।९४) म० → व० ।
[विपादिकावती] विपादिका अस्या अस्ति = विपादिकावती । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'मावर्णान्तोपान्ताप०' (२।१।९४) म० → व० ।
[काकतालुमती ] काकनिर्मितं तालु यस्य तत् । काकताल्वेव = काकतालुकम्, तदपि निन्द्यं तदस्या अस्ति = काकतालुमती । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी ॥छ।।
वाता-ऽतीसार-पिशाचात् कश्चान्तः ॥ ७।२।६१ ॥ [वाताऽतीसारपिशाचात् ] वातश्च अतीसारश्च पिशाचश्च = वाताऽतीसारपिशाचम्, तस्मात् । [कश्च] क प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [अन्तः] अन्त प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
वाता-ऽतीसारयो रुक्त्वात् पूर्वेणेन् सिद्धः कार्थमुपादानम् । पिशाचस्य तूभयार्थ-इन्प्रत्ययार्थ-कार्थं च इति भावः ।
[वातकी ] वातोऽस्यास्ति = वातकी । अनेन इन्प्र०-कश्चान्तः ।। . [अतीसारकी, अतिसारकी] अति 'सं गतौ' (२५) सृ । अतिसरणम् = अतीसारः । 'सर्तेः स्थिर-व्याधि-बल
५।३।१७) घनप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आए । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । अतीसारोऽस्यास्ति = अतीसारकी । अनेन इनप्र०-कश्चान्तः । 'एकदेशविकृतमनन्यवत्' (न्या० सं० वक्ष० (१) सूत्र(७)) इति न्यायात् अतिसारकी । [पिशाचकी ] पिशाचोऽस्यास्ति = पिशाचकी । अनेन इन्प्र०-कश्चान्तः ॥छ।।
पूरणाद् वयसि ॥ ७।२।६२ ॥
[पूरणात्] पूरण पञ्चमी ङसि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org