________________
११८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
.
[ऐकसहस्रिकः] एकं च तत् सहस्रं च = एकसहस्रम् । एकसहस्रमस्यास्ति = ऐकसहस्रिकः । अनेन इकणप्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[एकद्रव्यवत्त्वात् ] द्रव्यमस्यास्ति = द्रव्यवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → व० । द्रव्यवतो भावः = द्रव्यवत्त्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । एकेन द्रव्यवत्त्वमेकद्रव्यवत्त्वम्, तस्मात् । 'ऊनार्थपूर्वाद्यैः' (३।१।६७) समासः ॥छ।
सर्वादेरिन् ॥ ७।२५९ ॥ [ सर्वादेः ] सर्वश्चासौ आदिश्च, यद्वा सर्व आदिर्यस्य सः = सर्वादिः, तस्मात् । [इन् ] इन् प्रथमा सि ।
[सर्वधनी] सर्वं धनं = सर्वधनम् । सर्वधनमस्यास्ति = सर्वधनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (२४८७) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[सर्वबीजी] सर्व बीजं = सर्वबीजम्, तदस्यास्तीति सर्वबीजी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक्।
[सर्वकेशी नटः] सर्वे केशा अस्य सन्ति = सर्वकेशी नटः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।।
प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग-निन्द्यात् ॥ ७।२।६० ॥ [प्राणिस्थात् ] प्राणिनि तिष्ठतीति प्राणिस्थम्, तस्मात् । [अस्वाङ्गात् ] स्वं च तद् अङ्गं च = स्वाङ्गम्, न स्वाङ्गमस्वाङ्गम्, तस्मात् । [द्वन्द्वग्निन्द्यात् ] द्वन्द्वश्च रुग्(क्)च निन्द्यश्च = द्वन्द्वरुग्निन्द्यम्, तस्मात् ।
द्वन्द्व - [कटकवलयिनी] कटकानि च वलयानि च = कटकवलयानि । कटकवलयान्यस्य सन्ति = कटकवलयिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी ।
[शङ्खनूपुरिणी ] शङ्ख । अनुपरतो रवो यस्य यस्माद् वा तदनुपरतरवम्, तस्य पृषोदरादित्वात् नूपुरदेशः ।
'श्वशुर-कुकुन्दुर-दर्दुर-निचुर-प्रचुर-चिकुर-कुकुर-कुक्कुर-कुर्कुर-शर्कर-नूपुर-निष्ठुर-विथुर-मद्गुर-वागुरादयः' (उणा० ४२६) इति निपातनाद्वा । शङ्खाश्च नूपुराणि च = शङ्खनूपुराणि । शङ्खनूपुराण्यस्या(:) सन्ति = शङ्खनूपुरिणी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेम:' (२।४।१) ङी ।
रुग् - [कुष्टी ] कुष्टोऽस्यास्ति = कुष्टी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'इन्हन्०' (१।४।८७) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[किलासी] किलासोऽस्यास्ति = किलासी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org