________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
११७
[गौसहस्त्रिकः] गोसहस्रमस्यास्ति = गौसहस्त्रिकः । अनेन इकणप्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गोविंशतिमान् ] गोविंशतिरस्यास्ति = गोविंशतिमान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्रथमा सि ।
[गौशकटिकः ] गोभिर्युक्तं शकटमस्यास्ति = गौशकटिकः । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
शकटीशब्देन समानार्थः शकटशब्दोऽस्ति । शकटीशब्दात्तु मतुरनभिधानान्न भवति ।
[गौत्रिकः] गो । गवां समूहः = गोत्रा । 'गो-रथ-वातात् त्रल्-कट्यलूलम्' (६।२।२४) त्रलप्र० →त्र० । 'आत्' (२।४।१८) आप्प्र० → आ । गोत्रा विद्यते यस्य = गौत्रिकः । मतान्तरे अनेनैव इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गौवयसिकः] गो - वयस् । गावश्च वयांसि च = गोवयांसि, तान्यत्र सन्ति इति कार्यमन्यथा नामसमुदायात् तद्धितो न स्यात् । मतान्तरे अनेनैव इकणप्र० → इक । वृद्धि: औ ॥छा।
निष्कादेः शत-सहस्त्रात् ॥ ७२५७ ॥ [निष्कादेः] निष्क आदिर्यस्य सः = निष्कादिः, तस्मात् । [शतसहस्रात् ] शतं च सहस्रं च = शतसहस्रम्, तस्मात् ।.
[ नैष्कशतिकः] निष्कशतमस्यास्ति = नैष्कशतिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । ___ [नैष्कसहस्रिकः] निष्कसहस्रमस्यास्ति = नैष्कसहस्रिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शती] शतमस्यास्ति = शती । 'शिखादिपाठात् 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सहस्त्री] सहस्रमस्यास्ति = सहस्री । शिखादिपाठात् 'शिखादिभ्य इन्' (७२।४) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
एकादेः कर्मधारयात् ॥ ७।२५८ ॥ [एकादेः] एकश्चासावादिश्च = एकादिस्तस्मात् । यद्वा एक आदिर्यस्य सः = एकादिस्तस्मात् । _ [कर्मधारयात्] कर्मधारय पञ्चमी ङसि ।
[ऐकगविकः एको गौरेकगवः । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'एकगवोऽस्यास्ति = ऐकगविकः । अनेन इकणप्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ऐकशतिकः] एकं च तत् शतं च = एकशतम् । एकशतमस्यास्ति = ऐकशतिकः । अनेन इकणप्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । ॐ म० वृत्तौ - एका गौः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org