________________
११६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[हिम्यः पर्वतः, हिमवान् ] हिममत्रास्ति = हिम्यः पर्वतः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-हिमवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ॥छ।।
रूपात् प्रशस्ता-ऽऽहतात् ॥ ७।२।५४ ॥ [रूपात् ] रूप पञ्चमी ङसि । [प्रशस्ताऽऽहतात् ] प्रशस्तं च आहतं च = प्रशस्ताऽऽहतम्, तस्मात् ।
[रूप्यो गौः, रूप्यः पुरुषः] प्रशस्तं रूपमस्यास्ति = रूप्यो गौः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-रूप्यः पुरुषः ।
[रूप्यः कार्षापणः] आहतं रूपमस्यास्ति = रूप्यः कार्षापणः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । निघातिकाताडनात् कोऽर्थः ? हस्तिपुटिकाताडनाद् दीनारादिषु यद्रूपमुत्पद्यते तद् आहतं रूपमुच्यते ।
[रूपवान् ] रूपमस्यास्ति = रूपवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्रथमा सि ।
[रूपवती कन्या] रूपमस्या अस्ति = रूपवती कन्या । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'अधातददितः' (२।४।२) ङी । 'मावर्णान्तोपा०' (२।१।९४) म० → व० ।
आहते न भवति इतिकरणात् ।
[रूपिणी कन्या ] रूपमस्या अस्ति = रूपिणी कन्या । 'व्रीह्यादिभ्यस्तौ' (७।२।५) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेम:' (२।४।१) ङी ।
[रूपिको दारकः ] रूपमस्यास्ति = रूपिको दारकः । 'व्रीह्यादिभ्यस्तौ' (७।२।५) इकप्र० । 'अवर्णवर्णस्य' (७४/६८) अलुक् । 'आ यात्' (७।२।२) इत्यस्य पूर्णोऽवधिः । अतः परं मतुर्नास्ति ॥छ।।
पूर्णमासोऽण् ॥ ७।२।५५ ॥ [पूर्णमासः] पूर्णमास् पञ्चमी ङसि । [अण्] अण् प्रथमा सि ।
[पौर्णमासी] पूर्णो माश्चन्द्रोऽस्यामस्ति = पौर्णमासी । अनेन अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अणजेयेकण्-न' (२।४।२०) ङी ॥छ।।
गोपूर्वादत इकण् ॥ ७।२।५६ ॥ [गोपूर्वात् ] गौः पूर्वपदं यस्य सः = गोपूर्वपदस्तस्मात् । ‘ते लुग्वा' (३।२।१०८) पदशब्दलोपः । [अतः ] अत् पञ्चमी ङसि । [इकण] इकण प्रथमा सि ।
[गौशतिकः] गोशतमस्यास्ति = गौशतिकः । अनेन इकणप्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org