SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ ऊर्जो विन्-वलावश्चान्तः ॥ ७।२।५१ ॥ [ ऊर्ज: ] ऊज् पञ्चमी ङसि । [विन्वलौ ] विन् च वलश्च = विन्वलौ । [अस्] अस् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् । [च] च प्रथमा सि । [ अन्तः ] अन्त प्रथमा सि । 'सो रुः' (२|१।७२) स०र० । [ ऊर्जस्वी, ऊर्जस्वलः, ऊर्व्वान् ] 'ऊर्जण् बल-प्राणनयो:' (१५८२) ऊर्ज् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० → ·इ । ऊर्जनम् = ऊर्ज् (र्क्) । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । 'अप्रयोगीत् ' (१|१|३७) क्विप्लुक् । 'ऊर्गस्यास्ति ऊर्जस्वी, ऊर्जस्वलः । अनेन विन्-वलप्र० - अस् अन्तश्च । एवम्-ऊर्व्वान् । ' तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० मत् । 'मावर्णान्तोपान्ता० ' (२२११९४ ) म० → वत्वम् । [ ऊर्जस्वान् ] 'ऊर्जण् बल-प्राणनयो: ' (१५८२) ऊर्ज् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ऊर्जयतीति ऊर्जस् । ‘अस्' (उणा० ९५२) अस्प्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । ऊर्जोऽस्यास्ति ऊर्जस्वान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्रमत् ॥छा तमिस्रा - ऽर्णव- ज्योत्स्नाः ॥ ७।२।५२ ॥ [ तमिस्त्राऽर्णवज्योत्स्नाः ] तमिस्रा च अर्णवश्च ज्योत्स्ना च = तमिस्राऽर्णवज्योत्स्नाः । [ तमिस्रा रात्रि:, तमिस्त्रं तमः समूहः, तमिस्राणि गुहामुखानि, तमस्वान् ] तमोऽत्रास्ति तमिस्रा । अनेन तमस्शब्दात् रप्र०-उपान्त्यस्य च इत्वम् । 'आत्' (२|४|१८) आप्प्र० आ । एवम् तमिस्त्रं तमःसमूहः । तम एषु सन्ति = तमिस्राणि गुहामुखानि । एवम् तमस्वान् । तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० वत्वम् । Jain Education International = ११५ = [ अर्णवः समुद्रः ] अर्णो जलमत्रास्ति = अर्णवः समुद्रः । अनेन वप्र० - सलोपो निपात्यते । [ ज्योत्स्ना चन्द्रप्रभा, ज्योतिष्मती रात्रिः ] ज्योतिस् । ज्योतिर्दीप्तिरत्रास्ति = ज्योत्स्ना । अनेन नप्र० - उपान्त्य इकारलोपश्च निपात्यते । 'आत्' (२।४।१८) आप्प्र० आ । एवम् ज्योतिष्मती । 'तदस्याऽस्त्यस्मिन्निति मतुः ' (७२१) मतुप्र० → मत् । 'अधातूदृदित: ' (२।४।२) ङी । 'नाम्यन्तस्था - कवर्गात् ० ' (२।३।१५) षत्वम् ॥छ|| गुणादिभ्यो यः ॥ ७/२/५३ ॥ [ गुणादिभ्यः ] गुण आदिर्येषां ते = गुणादयः, तेभ्यः = गुणादिभ्यः । पञ्चमी भ्यस् । [य] य प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । = [ गुण्यः पुरुषः, गुणवान्, 'को नाम गुणिनो नार्चयेत् ? ] गुणा अस्य सन्ति गुण्यः पुरुषः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् - गुणवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२१) मतुप्र० → मत् । एवम्गुणिन् द्वितीया शस् । 'शिखादिभ्य इन्' (७।२1४ ) इन्प्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy