________________
११४
[ मायावी, मायावान्, मायी, मायिकः ] माया अस्यास्ति = मायावी, मायावान् । अनेन विन्- मतुप्र० एवम् - मायी, मायिकः । 'व्रीह्यादिभ्यस्तौ ' ( ७ २२५) इन् - इकप्र० । 'अवर्णवर्णस्य' (७|४|६८) आलुक् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ मेधावी, मेधावान् ] मेधा अस्यास्ति मेधावी । अनेन विन्प्र० । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । ‘दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । एवम्-मेधावान् । अनेन मतुप्रमत् । प्रथमा सि । 'ऋदुदितः' (१|४|७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०'. (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलुक् ।
=
→ मत् ।
[ स्रग्वी, स्त्रग्वान् ] स्रगस्यास्तीति स्रग्वी । अनेन विन्प्र० । प्रथमा सि । 'इन्- हन्० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । एवम् स्रग्वान् । अनेन मतुप्रमत् । प्रथमा सि । 'मावर्णान्तोपान्ता ० ' (२।१।९४) म०व० । 'ऋदुदितः ' (१|४|७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । पदस्य' (२२११८९) तलुक् ॥छ||
आमयाद् दीर्घश्च ॥ ७।२।४८ ॥
[ आमयात्] आमय पञ्चमी ङसि ।
[ दीर्घश्च ] दीर्घ प्रथमा सि । च प्रथमा सि ।
[ आमयावी, आमयवान् ] आ'मींग्श् हिंसायाम् ' (१५१२) मी । आमीनाति - हिनस्ति प्राणिगणमिति आमयः । अच्प्र० । अथवा 'अमण् रोगे' (७४७) अम् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । आमयतीति आमय: । 'गय- हृदयादयः' (उणा० ३७०) अयप्र० - आमयनिपातः । अयि तु 'णेरनिटि ' (४।३।८३) णिलुक् स्यात् । आमयोऽस्यास्ति = आमयावी, आमयवान् । अनेन विन्प्र० - दीर्घश्च । 'आ यात्' ( ७२२) इत्यधिकारात् अनेन मतुप्र० मत् । 'मावर्णान्तोपान्ता० ' (२।१।९४) म०व० ॥छ ।
स्वान्मिन्नीशे ॥ ७।२।४९ ॥
Jain Education International
[ स्वात् ] स्व पञ्चमी ङसि ।
[मिन् ] मिन् प्रथमा सि ।
[ईशे ] ईश सप्तमी ङि ।
[ स्वामी ] स्वमस्यास्ति = स्वामी । अनेन मिन्प्र० - दीर्घश्च ।
[ स्ववान् ] स्वमस्यास्ति । रक्ष्यतया न तु भोग्यतया । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२१) मतुप्र० मत् । 'मावर्णान्तोपान्ता०' (२११९४ ) म०व० ॥छ ।
गोः ॥ ७।२५० ॥
[गो: ] गो पञ्चमी ङसि । 'एदोद्भ्यां ङसिङसो रः' (१।४।३५ ) ङसि०र० । रः पदान्ते० ' (१|३|५३) विसर्गः ।
[ गोमी, गोमान् ] गावोऽस्य सन्ति = गोमी । अनेन मिन्प्र० । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्ण: ० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । एवम् गोमान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्रमत् ॥छ
For Personal & Private Use Only
www.jainelibrary.org