________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
११३
[कर्णवान्] कर्णोऽस्यास्ति = कर्णवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० ।
[नासिकावान्] नासिका अस्यास्ति = नासिकावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान०' (२।१।९४) म० → व० ॥छ।।
अभ्रादिभ्यः ॥ ७।२।४६ ॥ [अभ्रादिभ्यः] अभ्र इत्येवमादिर्येषां ते = अभ्रादयः, तेभ्यः = अभ्रादिभ्यः । पञ्चमी भ्यस् । [अभ्रं नभः] अभ्राण्यस्मिन् सन्ति = अभ्रं नभः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अर्शसो देवदत्तः ] अर्शस् । अस्यिस्य सन्ति = अर्शसो देवदत्तः । अनेन अप्र० ।
[उरसः, उरस्वान्] उरोऽस्यास्ति = उरसः । लोम-पिच्छादिपाठात् इलोऽपि । अनेन अप्र० । एवम्-उरस्वान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ॥छा।
अस्-तपो-माया-मेधा-स्रजो विन् ॥ ७।२।४७ ॥ [अस्तपोमायामेधास्त्रजः] अस् च तपस् च (तपश्च) माया च मेधा च स्रज्(क) च = अस्तपोमायामेधास्त्रज्(क्), तस्मात् ।
[विन्] विन् प्रथमा सि ।
असन्त - [यशस्वी, यशस्वान्] यशो विद्यतेऽस्य = यशस्वी । अनेन विन्प्र० । प्रथमा सि । 'इन्-हन्पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । एवम्-यशस्वान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१८९) तलुक् ।
[सरस्वी, सरस्वान्, सरस्वती] सरोऽत्रास्ति । यदा नदी तदा सरः । सरणं गमनमस्यास्तीति वाक्यम् । यदा तु भारती तदा सरो मानसाद्यस्या अस्तीति सरस्वी । अनेन विन्प्र० । एवम्-सरस्वान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् । एवम्-सरस्वती । 'अधातूदृदितः' (२।४।२) ङी । __ [तेजस्वी ] तेजस् । तेजोऽस्यास्ति = तेजस्वी । अनेन विन्प्र० । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
[वर्चस्वी] वर्षोऽत्रास्ति = वर्चस्वी । अनेन विन्प्र० । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः०' (१।४।८७) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[तपस्वी, तपस्वान्] तपोऽस्यास्ति तपस्वी । अनेन विन्प्र० । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । एवम्-तपस्वान् । अनेनैव मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१२४/७०) नोऽन्तः । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलुक् ।
असन्तेनैव सिद्धे तपसो ग्रहणं ज्योत्स्नाद्यणा बाधो मा भूदित्येवमर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org