________________
११२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[केशवः, केशिकः, केशी, केशवान् ] केशा अस्य सन्ति = केशवः । अनेन वप्र० । एवम्-केशिकः । 'नावादेरिकः' (७२।३) ('अतोऽनेक०' (७२।६)) इकप्र० । एवम्-केशी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । एवम्केशवान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् । न केवलं यस्य केशाः सन्ति स एव केशवः, विष्णुवाची केशवशब्दो रूढिशब्दोऽप्यस्ति इति भावः ॥छ।।
मण्यादिभ्यः ॥ ७।२।४४ ॥ [मण्यादिभ्यः] मणिरादिर्येषां ते = मण्यादयः, तेभ्यः = मण्यादिभ्यः । पञ्चमी भ्यस् । योगविभागाद्वेति निवृत्तम् ।
[मणिवः, मणिमान्, मणिलः] मणिरस्यास्ति = मणिवः, मणिमान् । अनेन वप्र० । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् । एवम्-मणिलः । 'सिध्मादि-क्षुद्रजन्तु-रुग्भ्यः ' (७।२।२१) लप्र० ।
[हिरण्यवः, हिरण्यमान्] हिरण्यमस्यास्ति = हिरण्यवः, हिरण्यमान् । अनेन व-मतुप्र० → मत् ।
[बिम्बावम् ] बिम्बमत्रास्ति = बिम्बावम् । अनेन वप्र० । 'घड्युपसर्गस्य बहुलम्' (३।२।८६) इति बाहुलकाद्दीर्घः । बिम्बादयस्त्रयोऽपि सरोवाचिनः ।
[कुररावम् ] कुररा अत्र सन्ति = कुररावम् । अनेन वप्र० । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) इति बाहुलकाद्दीर्घः।
[कुरवावम्] कुत्सितो रवः शब्दो येषां ते = कुरवाः । कुरवा अत्र सन्ति = कुरवावम् । अनेन वप्र० । 'घड्युपसर्गस्य बहुलम्' (३।२।८६) इति बाहुलकाद्दीर्घः ।
[राजीवम् ] राजिशब्दात् 'इतोऽक्त्यर्थात्' (२।४।३२) ङी। राजी अत्रास्ति = राजीवम् । अनेन वप्र० ।। [ इष्टकावम् ] इष्टका अत्रास्ति = इष्टकावम् । अनेन वप्र० । [गाण्डिवम् ] गाण्डिशब्देन धनुः पर्व । अतो गाण्डिरस्यास्ति = गाण्डिवम् । अनेन वप्र० । गाण्डिवं धनुरुच्यते । [गाण्डीवम् ] गाण्डी अत्रास्ति = गाण्डीवम् । अनेन वप्र० । [अजकावम् ] अजका-अस्थिविकारोऽत्रास्ति = अजकावम् । अनेन वप्र० । बिम्बावमित्यादयो रूढिशब्दाः । रूढिशब्दविषये च मतुर्न भवति ॥छ।
हीनात् स्वाङ्गादः ॥ ७।२।४५ ॥ [हीनात्] 'ओहांक् त्यागे' (११३१) हा । जहाति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । 'ई व्यञ्जनेऽयपि' (४।३।९७) ई । तस्मात् ।
[स्वाङ्गात् ] स्वं च तद् अङ्गं च = स्वाङ्गम्, तस्मात् । [अ] अ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कर्णः] खण्डः कर्णोऽस्यास्ति = कर्णः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [नासिकः] छिन्ना नासिका अस्यास्ति = नासिकः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org