________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१११
दन्तादुन्नतात् ॥ ७।२।४० ॥ [दन्तात् ] दन्त पञ्चमी ङसि । [ उन्नतात्] उन्नत पञ्चमी ङसि । [दन्तुरः] उन्नता दन्ता अस्य सन्ति = दन्तुरः । अनेन डुरप्र० → उर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् ।
निर्गतत्वमुन्नतत्वम् । प्रमाणातिरेकस्तु वृद्धिरिति भिन्नत्वम् । तत्रोन्नतत्वे दन्तुरः । विवृद्धिविवक्षायां तु 'स्वाङ्गाद् विवृद्धात् ते' (७।२।१०) - 'आ यात्' (७।२।२) इति च दन्तिलः, दन्तिकः, दन्ती, दन्तवान् इति यथायोगं भवति । उन्नतार्थो मतुना न गम्यते इत्यत्र मतुर्न भवति । एवम्[दन्तवान् ] दन्ता अस्य सन्ति = दन्तवान् । 'तदस्याऽस्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ॥छ।।
मेधा-स्थान्नवेरः ॥ ७।२।४१ ॥ [ मेधारथात् ] मेधा च रथश्च = मेधारथम, तस्मात् । [नवा] नवा प्रथमा सि । [इरः] इर प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मेधिरः, मेधावान्, मेधावी ] मेधा अस्यास्ति = मेधिरः, मेधावान् । अनेन इरप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'आ यात्' (७/२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् । 'अस् तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विन्प्र० । प्रथमा सि ।
[रथिरः, रथिकः, रथी, रथवान् ] रथोऽस्यास्ति = रथिरः । अनेन इरप्र० । एवम्-रथिकः । 'नावादेरिकः' (७२।३) ('अतोऽनेक०' (७।२।६) इकप्र०) । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । एवम्-रथी । 'अतोऽनेकस्वरात्'
इनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक । एवम्-रथवान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् । प्रथमा सि । 'मावर्णान्तो०' (२।१।९४) म० → व० ॥छ।।
कृपा-हृदयादालुः ॥ ७।२।४२ ॥ [कृपाहृदयात्] कृपा च हृदयश्च(हृदयं च) = कृपाहृदयम्, तस्मात् । [आलुः] आलु प्रथमा सि ।
[कृपालुः, कृपावान्] कृपा अस्यास्ति = कृपालुः, कृपावान् । अनेन आलुप्र० । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् । [हृदयालुः, हृदयिकः, हृदयी, हृदयवान्] हृदयमस्यास्ति = हृदयालुः, हृदयवान् । अनेन आलु-मतुप्र० → मत् ।
'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वस: सो' (१।४।९०) दीर्घः । 'पदस्य' (२।१।८९) तलुक् । एवम्-हृदयिकः, हृदयी । 'अतोऽनेकस्वरात' (७२।६) इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक ॥छ।।
केशाद् वः ॥ ७।२।४३ ॥ [केशात् ] केश पञ्चमी ङसि ।। [वः] व प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org