________________
११०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सिकतिलः, सैकतः, सिकतावान् देशः ] सिकता अस्मिन्नस्ति = सिकतिलः, सैकतः, सिकतावान् देशः । अनेन इल-अण्-मतुप्र० → मत् । प्रथमा सि ।
[शर्करिलः, शार्करः, शर्करावान् देशः ] शर्करा अस्मिन्नस्ति = शर्करिलः, शार्करः, शर्करावान् देशः । अनेन इल-अण्-मतुप्र० → मत् । प्रथमा सि ॥छ।
. धु-द्रोर्मः ॥ ७।२।३७ ॥ [धुद्रोः] धुश्च द्रुश्च = द्रु, तस्मात् । [मः] म प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ घुमः ] द्यौधुर्वास्यास्मिन् वास्तीति घुमः । अनेन मप्र० । [ द्रुमः ] उच्चस्तरदूणि दारुण्यस्यास्मिन् वा सन्तीति द्रुमः । अनेन मप्र० । रूढिशब्दाविमौ । रूढिविषये च मतुर्न भवति । अन्यत्र तु मतुरेव । एवम्[ धुमान् ] 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्रथमा सि । [ द्रुमान्] 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । प्रथमा सि । ॥छ।।
काण्डा-ऽऽण्ड-भाण्डादीरः ॥ ७।२।३८ ॥
[काण्डाऽऽण्डभाण्डात्] काण्डश्च आण्डश्च भाण्डश्च = काण्डाऽऽण्डभाण्डम्, तस्मात् । [ईरः] ईर प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[काण्डीरः, काण्डवान् ] काण्डान्यत्र सन्ति = काण्डीरः, काण्डवान् । अनेन ईर-मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आण्डीरः, आण्डवान्] आण्डौ अस्य स्त: = आण्डीरः, आण्डवान् । अनेन ईर-मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[भाण्डीरः, भाण्डवान्] भाण्डमस्यास्ति = भाण्डीरः, भाण्डवान् । अनेन ईर-मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । आण्डौ मुष्कौ । एकदेशविकृतस्यानन्यत्वात् अण्डीर इत्यपि जयगौडयोर्मतम् ॥छ।।
कच्छ्वा डुरः ॥ ७।२।३९ ॥ [कच्छ्वाः ] कच्छू पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस्० । [डुरः] डुर प्रथमा सि ।
[कच्छुरः, कच्छूमान् ] 'कष हिंसायाम्' (५०७) कष् । कषति कान्तिमिति कच्छूः । 'कषेर्ड-च्छौ च षः' (उणा० ८३१) ऊप्र०-षश्च च्छ० । कच्छूरस्यास्ति = कच्छुरः, कच्छूमान् । अनेन डुरप्र० → उर । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऊलुक् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org