SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ कौतुपं गृहम् ] कुतुमा (पा) अत्र सन्ति = कौतुमं (पं) गृहम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७४१) वृद्धिः औ । 'अवर्णवर्णस्य' (७|४|६८) अवर्णस्य लुक् । [ कौण्डलो युवा ] कुण्डलेऽस्य स्तः = कौण्डलो युवा । अनेन अण्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ तापसः पाखण्डी ] तपोऽस्यास्ति = तापसः पाखण्डी । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । [ साहस्त्रो देवदत्तः ] सहस्रमस्यास्ति = साहस्रो देवदत्तः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ ज्योत्स्नांवान् ] ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२ १) मतुप्रमत् । प्रथमा सि । 'मावर्णान्तोपान्ता० ' (२।१।९४) म०व० । = १०९ [ तमिस्रावान् ] तमिस्रा अत्रास्ति = तमिस्रावान् । 'तदस्याऽस्त्यस्मि०' (७।२।१) मतुप्रमत् । प्रथमा सि । 'मावर्णान्तोपान्ता०' (२।१।९४) म०व० । [ कुण्डली ] कुण्डलमस्यास्ति कुण्डली । 'शिखादिभ्य इन्' ( ७ २२४ ) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्- पूषा० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः ' . (२|१|९१) नलुक् । [ सहस्त्री ] सहस्रमस्यास्ति = सहस्री । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । [ ज्योत्स्ना ] ज्योत्स्नादयः प्रयोगगम्याः । द्युति दीप्तौ ' ( ९३७) द्युत् । द्योतते = ज्योतिस् । 'द्युतेरादेश्च जः' (उणा० ९९१) इस्प्र०-द० जश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । ज्योतिरस्यास्ति = ज्योत्स्ना । 'तमिस्रा - ऽर्णव- ज्योत्स्ना' (७/२/५२) ज्योत्स्नानिपात्यते ॥छ । सिकता - शर्करात् ॥ ७।२।३५ ॥ [सिकताशर्करात् ] सिकता च शर्करा च = सिकताशर्करम् । 'क्लीबे' (२।४।९७) ह्रस्वः । तस्मात् । [सैकतः सिकतावान् देशः ] सिकता अत्र सन्ति मत् । ‘वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः ऐ सैकतः सिकतावान् । अनेन अण्प्र० अ-मतुप्र० 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । देश: । । अ-मतुप्र० = शार्करः, शर्करावान् । अनेन अण्प्र० [ शार्करः, शर्करावान् ओदनः ] शर्करा अत्र सन्ति मत् । ‘वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । ओदनः ॥छ|| इलश्च देशे ॥ ७।२।३६ ॥ [इलश्च ] इल प्रथमा सि । च प्रथमा सि । [ देशे ] देश सप्तमी ङि । Jain Education International = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy