________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ श्राद्धः, श्रद्धावान्, श्राद्धा ] श्रत् 'डुधांग्क् धारणे च' (१९३९) धा । श्रद्धानं = श्रद्धा । ‘मृगयेच्छा-याच्ञातृष्णा - कृपा-भा-श्रद्धा-ऽन्तर्द्धा' (५।३।१०१) अ० अ श्रद्धानिपातश्च । श्रद्धा अस्यास्ति = श्राद्धः, श्रद्धावान् । अनेन णप्र० → अ । ‘वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'आ यात्' (७२) · इत्यधिकारात् अनेनैव मतुप्र० मत् । स्त्रीलिङ्गेऽपि एवं साध्यः । 'आत्' (२।४।१८) आप्प्र० आ ।
१०८
[ आर्च:, अर्चावान्, आर्चा ] 'अर्च(र्चि) ण् पूजायाम्' (१९५४) अर्च् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र०→ इ । अर्चनम् = अर्चा । ‘तेटो गुरोर्व्यञ्जनात्' (५।३।१९०६) अप्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । 'आत्' (२|४|१८) आप आ । अर्चा अस्यास्ति आर्च: अर्चावान् । अनेन णप्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्रमत् । स्त्रीलिङ्गेऽपि एवं साध्य: । 'आत्' (२|४|१८) आप्प्र० आ ।
[ वार्त्तः, वृत्तिमान्, वार्त्ता ] 'वृतूङ् वर्त्तने' (९५५) ति । वृत्तिरस्यास्ति वार्त्तः, वृत्तिमान् । अनेन णप्र० साध्य: । 'आत्' (२|४|१८) आपूप्र० आ ।
=
=
[प्राज्ञी ] प्रज्ञा । प्रज्ञैव = प्राज्ञी । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'अणञेयेकण्०' (२।४।२०) ङी ||छ||
ज्योत्स्नादिभ्योऽण् ॥ ७।२।३४ ॥
वृत् । वर्त्तनं = वृत्ति: । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → अ मतुप्र० मत् । शेषं पूर्ववत् । स्त्रीलिङ्गेऽपि एवं
[ ज्योत्स्नादिभ्यः ] ज्योत्स्ना आदिर्येषां ते = ज्योत्स्नादयः, तेभ्यः = ज्योत्स्नादिभ्यः । पञ्चमी भ्यस् ।
[ अण् ] अण् प्रथमा सि ।
[ ज्योत्स्नः पक्षः ] ज्योत्स्ना अस्मिन्नस्ति ज्यौत्स्नः पक्षः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
=
[ ज्यौत्स्नी रात्रिः] ज्योत्स्ना अस्यामस्ति = ज्यौत्स्नी रात्रिः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'अणञेयेकण्- नञ्०' (२।४।२०) ङी ।
[ तामिस्र: पक्ष:, तामिस्त्री रात्रिः ] तमोऽत्र अस्ति = तमिस्रा । तमिस्रा अत्र अस्ति तामिस्रः पक्षः, तामिस्त्री रात्रिः । अनेन अणूप्र० अ । 'वृद्धिः स्वरेष्वा०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८). आलुक् । द्वितीये 'अणञेयेकण्-नञ्०' (२।४।२० ) ङी ।
Jain Education International
[ तामिस्त्राणि गुहामुखानि ] तमिस्रा एष्वस्ति = तामिस्राणि गुहामुखानि । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । ‘अवर्णेवर्णस्य' (७|४|६८) आलुक् । जस् । 'नपुंसकस्य शि: ' (१|४|५५) जस्०शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[वैसर्पो व्याधिः ] वि 'सृप्लूं गतौ' (३४१) सृप् । विविधं सर्पणं = विसर्प: । 'अच्' (५।१।४९ ) अच्प्र० अ । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । विसर्पोऽत्रास्ति = वैसर्पो व्याधिः । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[वैपादिकं कुष्ठम् ] विपादिका अत्रास्ति = वैपादिकं कुष्ठम् । अनेन अण्प्र० (७|४|६८) अलुक् ।
For Personal & Private Use Only
→ अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य'
www.jainelibrary.org