________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१०७
[ हूस्वश्च ] हूस्व प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि ।
[शाकिनः, शाकीमान् ] महच्छाकं कूष्माण्डादिशाकसमूहो वा शाकी । महत्त्वे समूहेऽपि "तद् बहुलमि"ति स्त्रीत्वे 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । शाकी अस्यास्ति = शाकिनः, शाकीमान् । अनेन नप्र०-हस्वश्च । 'आ यात्' (७।२।२) मतुप्र० → मत् ।
[पलालिनः, पलालीमान् ] महत्पलालं पलालक्षोदो वा = पलाली । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । पलाली अस्यास्ति = पलालिनः, पलालीमान् । अनेन नप्र०-हुस्वश्च । 'आ यात्' (७।२।२) मतुप्र० → मत् ।।
[दइँणः, दर्दूमान् ] दर्दूर्नाम व्याधिः । दद्दूरस्यास्ति = दर्दूणः, दर्दूमान् । अनेन नप्र०-हुस्वश्च । 'र-वर्णान्नो ण०' (२।३।६३) न० → णत्वम् । 'आ यात्' (७१२।२) मतुप्र० → मत् ॥छ।।
विष्वचो विषुश्च ॥ ७।२।३१ ॥ [विष्वचः] विष्वच् पञ्चमी ङसि ।। [विषुश्च] विषु प्रथमा सि । च प्रथमा सि ।
[विषुण आदित्यः, विषुणो वायुः, विष्वग्वान्] विषु 'अञ्चू गतौ च' (१०५) अञ्च् । विष्वञ्चतीति विष्वक् । 'क्विप्' (५।१।१४८) क्विप्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । विष्वञ्चो रश्यमो विष्वग्गतानि वा अस्य सन्ति इति विषुणः आदित्यो वायुर्वा । अनेन नप्र०-विषुदेशश्च । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् । एवम्-विष्वग्वान् । 'आ यात्' (७।२।२) इत्यधिकारात् मतुप्र० → मत् । प्रथमा सि । 'मावर्णान्तोपान्ता०' (२।११९८४) म० → व० । ___ [विषुमानहोरात्रप्रविभाग इति ] विषुर्नाम मुहूर्तोऽत्रास्ति = विषुमान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० - मत् ॥छ।
लक्ष्या अनः ॥ ७२।३२ ॥ [ लक्ष्याः ] लक्ष्मी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । [अनः] अन प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[लक्ष्मणः, लक्ष्मीवान् ] लक्ष्मीरस्यास्ति = लक्ष्मणः । अनेन अनप्र० । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । एवम्लक्ष्मीवान् । 'तदस्याऽस्त्यस्मि०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → व० ॥छ।
प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः ॥ ७।२।३३ ॥ [प्रज्ञाश्रद्धाऽर्चावृत्तेः ] प्रज्ञा च श्रद्धा च अर्चा च वृत्तिश्च = प्रज्ञाश्रद्धाऽर्चावृत्ति, तस्मात् । [णः ] ण प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्राज्ञः, प्रज्ञावान्, प्राज्ञा] प्र 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । प्रज्ञानं = प्रज्ञा । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'प्रज्ञा अस्यास्ति = प्राज्ञः, प्रज्ञावान् । अनेन णप्र० → अ-मतुप्र० → मत् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । स्त्रीलिङ्गेऽपि एवं साध्यः । 'आत्' (२।४।१८) आप्प्र० → आ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org