________________
१२०
[ वयसि ] वयस् सप्तमी ङि ।
[पञ्चमी बालकः] पञ्चन् । पञ्चानां पूरणः = पञ्चमः । 'नो मट्' (७|१|१५९) मट्प्र० म । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । पञ्चमो मासः संवत्सरो वाऽस्यास्तीति पञ्चमी बालकः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः ' (२।१।९१) नलुक् ।
[ दशमी करभः ] दशन् । दशानां पूरण: = दशमः । 'नो मट्' (७|१|१५९) मट्प्र० म । 'नाम्नो नोऽनहनः ' (२।१।९१) नलुक् । दशमो मासः संवत्सरो वाऽस्यास्तीति दशमी करभः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् ॥छ ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ सुखादेः] सुखमादिर्यस्य तत् = सुखादि, तस्मात् ।
[ सुखी ] सुखमस्यास्ति = सुखी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ दुःखी ] दुःखमस्यास्ति = दुःखी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गणोऽत्र ॥छ ।
मालायाः क्षेपे ॥ ७।२।६४ ॥
सुखादेः ॥ ७।२।६३ ॥
[ मालायाः ] माला पञ्चमी ङसि ।
[ क्षेपे ] क्षेप सप्तमी ङि ।
[ माली, मालावान् ] माला अस्यास्ति । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । एवम्-मालावान् । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२१) मतुप्रमत् । 'मावर्णान्तोपान्ता० ' (२।१।९४) म०व० ।
मालाशब्दः शिखादिः, ततः क्षेपे मतुनिवृत्त्यर्थं वचनम् ॥छ||
धर्म - शील- वर्णान्तात् ॥ ७२।६५ ॥
[ धर्मशीलवर्णान्तात् ] धर्मं च शीलं च वर्णश्च = धर्मशीलवर्णाः, धर्मशीलवर्णा अन्ते यस्य सः = धर्मशीलवर्णान्तः, तस्मात् ।
Jain Education International
[ यतिशीली ] यतिशीलमस्यास्ति
[ मुनिधर्मी ] मुनिधर्मोऽस्यास्ति = मुनिधर्मी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । यतिशीली । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । [ ब्राह्मणवर्णी] ब्राह्मणस्य वर्णो जातिरस्यास्ति = ब्राह्मणवर्णी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । प्रथमा सि ॥छ ।
=
बाहूर्वादेर्बलात् ॥ ७/२/६६ ।।
[ बाहूर्वादे:] बाहुश्च ऊरुश्च, ते आदी यस्य = बाहूर्वादिः, तस्मात् ।
[ बलात् ] बल पञ्चमी ङसि ।
[ बाहुबली ] बाहोर्बलं = बाहुबलम्, तदस्यास्ति
=
बाहुबली । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् ।
For Personal & Private Use Only
www.jainelibrary.org