________________
१०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
ग्मिन् ॥ ७।२।२५ ॥ [ग्मिन् ] ग्मिन् प्रथमा सि ।
[वाग्मी, वाग्वान्] प्रशस्ता वागस्यास्ति = वाग्मी, वाग्वान् । अनेन ग्मिन्प्र० । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । एवम्-वाग्वान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० , मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् । गकारः 'प्रत्यये च' (१।३।२) इति अनुनासिकनिवृत्त्यर्थः ॥छ।।
मध्वादिभ्यो रः ॥७।२।२६ ॥ [मध्वादिभ्यः] मधुरादिर्येषां ते = मध्वादयः, तेभ्यः = मध्वादिभ्यः । पञ्चमी भ्यस् । [रः] र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । मधुशब्दो माधुर्येऽर्थे पुल्लिङ्गः, क्षौद्राद्यर्थे तु नपुंसकः, तस्मात् माधुर्येऽर्थे पुल्लिङ्गेन वाक्यम् - [ मधुरो रसः] मधुरस्यास्ति = मधुरो रसः । अनेन रप्र० । अत्र मधुशब्दः स्वादुत्वे गुणत्वे गुणसामान्ये वर्तते । [मधुरं मधु, मधुरं क्षीरम् ] मधुरस्यास्ति = मधुरं मधु, मधुरं क्षीरम् । अत्र गुणे ।
यस्तु द्रव्ये मधुशब्दो मधु क्षौद्रम्, मधु मद्यम्, मधुः पुष्पसवो मधुर्मास इति ततो रप्रत्ययो न भवति, मतुरेव भवतीत्याह इति न्यासकाराशङ्का स्वादुत्वं नाम गुणसामान्यमस्ति यद्योगान्मधुरो रस उच्यते, गुणश्च यद्योगान्मधुरं मधु, मधुरं क्षीरमिति द्रव्यं व्यपंदिश्यते, तस्मिन्नुभयस्मिन्नपि वर्तमानो मधुशब्दो रप्रत्ययमुत्पादयतीति न्यासः ।
[मधुमान् घटः] मधुरस्यास्ति = मधुमान् घटः । 'आ यात्' (७।२।२) मतुप्र० → मत् ।
[खरो गर्दभः, खवानन्यः] खं महत्कण्ठविवरमस्यास्ति खरो गर्दभः । अनेन रप्र० । खवानन्यः, । 'आ यात्' (७।२।२) मतुप्र० → मत् ।
[मुखरो वाचालः, मुखवानन्यः] मुखं सर्वस्मिन् वक्तव्येऽस्यास्तीति मुखरो वाचालः । अनेन रप्र० । द्वितीये मतुप्र० → मत् ।
[कुञ्जरो हस्ती, कुञ्जवानन्यः ] कुजावस्य स्तः = कुञ्जरो हस्ती । अनेन रप्र० । कुञ्जशब्दोऽत्र हनुपर्यायः । द्वितीये मतुप्र० → मत् ।
[नगरं पुरम्, नगवदन्यत् ] नगा-वृक्षा अत्र सन्ति = नगरं पुरम् । अनेन रप्र० । द्वितीये मतुप्र० → मत् । [ऊषरं क्षेत्रम्, ऊषवदन्यत् ] ऊष:-क्षारोऽत्रास्ति = ऊपरं क्षेत्रम् । अनेन रप्र० । द्वितीये मतुप्र० → मत् । [मुष्करः पशुः, मुष्कवानन्यः ] मुष्कोऽस्यास्ति = मुष्करः पशुः । अनेन रप्र० । द्वितीये मतुप्र० → मत् । [शुषिरम्, शुषिमत्काष्ठम् ] शुषिच्छिद्रमस्यास्ति = शुषिरम् । अनेन रप्र० । द्वितीये मतुप्र० → मत् । [कण्डूरः, कण्डूमान् ] कण्डूरस्यास्ति = कण्डूरः । अनेन रप्र० । द्वितीये मतुप्र० → मत् ।
[पाण्डुरः, पाण्डुमान्] पाण्डुरस्यास्ति = पाण्डुरः । अनेन रप्र० । पाण्डुशब्दः पाण्डुत्वरूपे गुणे वर्त्तते । द्वितीये मतुप्र० → मत् ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International