________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१०५
[पांशुरः, पांशुमान् ] पांशुरस्यास्ति = पांशुरः । अनेन रप्र० । द्वितीये मतुप्र० → मत् ॥छ।।
कृष्यादिभ्यो वलच् ॥ ७।२।२७ ॥ [कृष्यादिभ्यः] कृषिरादिर्येषां ते = कृष्यादयः, तेभ्यः = कृष्यादिभ्यः । पञ्चमी भ्यस् ।
[वलच्] वलच् प्रथमा सि । .. [कृषीवलः कुटुम्बी, कृषिमत् क्षेत्रम् ] कृषिरस्यास्ति = कृषीवलः । अनेन वलच्प्र० → वल । 'वलच्यपित्रादेः' (३।२१८२) दीर्घः । कुटुम्बी । एवम्-कृषिमत् क्षेत्रम् । 'आ यात्' (७।२।२) मतुप्र० → मत् । _[आसुतीवल: कल्यपालः, आसुतिमान् ] 'धुंग्ट् अभिषवे' (१२८६) षु, आङ्पूर्व० । 'ष: सोऽष्ट्यै-ष्ठिवष्वष्कः' (२।३।९८) सु । आसूयत इति आसुतिः । 'समिणा सुगः' (५।३।९३) क्तिप्र० → ति । आसुतिरस्यास्ति = आसुतीवलः । अनेन वलचप्र० → वल । 'वलच्यपित्रादेः' (३।२।८२) दीर्घः । कलायाङ्गीनादौ साधुः = कल्यम् । 'तत्र साधौ' (७।४१५) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । 'पलण् रक्षणे' (१६९९) पल् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'ञ्णिति' (४३५०) उपान्त्यवृद्धिः । कल्यं पालयति = कल्यपालः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । ‘णेरनिटि' (४।३।८२) णिच्लुक् । एवम्-आसुतिमान् । 'आ यात्' (७।२।२) मतुप्र० → मत् । . [परिषद्वलः, परिषद्वान् ] परि ‘षद्लू विशरण-गत्यवसादनेषु' (१३७१) षद् । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) सद् । परिषद्यते-प्राप्यते न्यायार्थिभिर्जनैरिति परिषत्' । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'सदोऽप्रतेः परोक्षायां त्वादेः' (२।३।४४) षत्वम् । परिषदस्यास्ति = परिषद्वलः । अनेन वलच्प्र० → वल । एवम्-परिषद्वान् । 'आ यात्' (२।२) मतुप्र० → मत् ।
[पर्षद्वलः, पर्षद्वान् ] पर्षदस्यास्ति = पर्षद्वलः । अनेन वलच्प्र० → वल । एवम्-पर्षद्वान् । 'आ यात्' (७।२।२) मतुप्र० → मत्.।
[परिपद्वलं तीर्थम्, परिपद्वत् ] परि 'पर्दिच गतौ' (१२५७) । पद् । परिपद्यते-प्राप्नोति सूकरादिकं = परिपत् पङ्कः । क्विप्र० । 'अप्रयोगीत्' (१११३७) विप्लोपः । परिपत् अत्रास्ति = परिपद्वलं तीर्थम् । अनेन वलचप्र० → वल । पङ्कोऽत्रास्ति = पङ्किल इत्यर्थः । 'व्रीह्यर्थ-तुन्दादेरिलश्च' (७।२।९) इलप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-परिपत् पङ्कोऽस्यास्ति = परिपद्वत् । 'आ यात्' (७।२।२) मतुप्र० → मत् ।
[रजस्वला स्त्री ] रजोऽस्या अस्ति = रजस्वला । अनेन वलच्प्र० → वल । 'आत्' (२।४।१८) आप्प्र० → आ ।
[दन्तावलो नाम राजा हस्ती च, दन्तवान ] दन्ता अस्य सन्ति = दन्तावलो नाम राजा हस्ती च । अनेन वलच्प्र० → वल । द्वितीये 'आ यात्' (७।२।२) मतुप्र० → मत् ।
. [शिखावलं नगरम्, शिखावलो मयूरः, शिखावला स्थूणा, शिखावानन्यः] शिखा अस्यास्ति = शिखावलं नगरम्, शिखावलो मयूरः, शिखावला स्थूणा । अनेन वलचप्र० → वल । 'आत्' (२।४।१८) आप्प्र० → आ । शाखार्थः प्राणिजातिवचनो वा, यथा कस्यां शाखायामुत्पन्नस्त्वमिति, इतिकरणात् प्राण्यङ्गार्थादपि शा(शि)खाशब्दात् वलच्, न तु ल एव, शिखावलो मयूर इत्यादौ दन्त-शिखाभ्यां संज्ञायामिति पूर्वैरुक्तत्वात् । द्वितीये 'आ यात्' (७।२।२) मतुप्र० → मत् ।
[ मातृवलः] माता अस्याऽस्ति = मातृवलः । अनेन वलच्प्र० → वल । [पितृवलः ] पिता अस्यास्ति = पितृवलः । अनेन वलच्प्र० → वल ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org