________________
१०२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[कर्णिकालः ] कर्णिका अस्यास्ति = कर्णिकालः । मतान्तरेऽनेन लप्र० । कणिकाशब्दः प्राण्यङ्गस्यैव वाचक इत्याहुः ।
[हस्तवान्] हस्तौ विद्य(द्ये)तेऽस्य = हस्तवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → व० ।
[पादवान् ] पादौ विद्यतेऽस्य = पादवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ।' 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० ॥छ।।
सिध्मादि-क्षद्रजन्त-रुग्भ्यः
॥ ७।२।२१ ॥
[सिध्मादिक्षुद्रजन्तुरुग्भ्यः] सिम आदिर्यस्य सः = सिध्मादिः । क्षुद्राश्च जन्तवश्च = क्षुद्रजन्तवः । सिध्मादिश्च क्षुद्रजन्तवश्च रुग् च = सिध्मादिक्षुद्रजन्तुरुजः, तेभ्यः = सिध्मादिक्षुद्रजन्तुरुग्भ्यः । पञ्चमी भ्यस् ।
[सिध्मलः, सिध्मवान् ] सिध्मान्यस्य सन्ति = सिध्मलः । अनेन लप्र० । एवम्-सिध्मवान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् ।
[वर्मलः, वर्धवान्, वर्मनः ] व न्यस्य सन्ति = वर्मलः, वर्मवान् । अनेन लप्र० । अनेन मतुप्र० → मत् । एवम्-वर्मनः । 'नोऽङ्गादेः' (७।२।२९) नप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। ...
[गडुलः, गडुमान् ] गडुरस्यास्ति = गडुलः । अनेन लप्र० । एवम्-गडुमान् । अनेनैव मतुप्र० → मत् । [पाणीलः] पार्णी अस्यास्ति = पाीलः । अनेन लप्र० । [धमनीलः ] धमन्योऽस्य सन्ति = धमनीलः । अनेन लप्र० । [यूकालः, यूकावान्] यूका अस्य सन्ति = यूकालः, यूकावान् । अनेन ल-मतुप्र० → मत् । [मक्षिकालः, मक्षिकावान् ] मक्षिका अस्य सन्ति = मक्षिकालः, मक्षिकावान् । अनेन ल-मतुप्र० → मत् । आ नकुलात् क्षुद्रजन्तुः । रोगवाची - [ मूर्छालः, मूळुवान् ] मूर्छा अस्यास्ति = मूर्छालः, मूर्छावान् । अनेन ल-मतुप्र० → मत् । [विचिकालः, विचर्चिकावान् ] विचर्चिका अस्यास्ति = विचर्चिकालः, विचचिकावान् । अनेन ल-मतुप्र० → मत् ।
रुग्भ्य इति बहुवचनं स्वरूपविधिनिषेधार्थम् ।
पा(पे)शं लाति, कुशं लातीत्येवमनयोर्युत्पत्तिरेव, एवं वत्सलांसलयोरपि । औणादिको वा मनोजमेधाविवाचिनौ । सिध्मशब्देन दुर्भित्तकान्युच्यन्ते । सिध्म-वर्मन्-कण्डूशब्दानां रुग्द्वारेणैव सिद्ध गणपाठे यथासंख्यं 'प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग-निन्द्यात्' (७२।६०) इति बाधनार्थम् 'नोऽङ्गादेः' (७।२।२९) इति 'मध्यादिभ्यो र:' (७।२।२६) इति च समावेशार्थम् । अत्र गडुशब्दो गडुलत्वरूपे गुणे वर्त्तते इति रुग्द्वारेण न सिध्यति ॥छ।
प्रज्ञा-पर्णोदक-फेनाल्लेलौ ॥ ७।२।२२ ॥ [प्रज्ञापर्णोदकफेनात् ] प्रज्ञा च पर्णश्च उदकं च फेनश्च = प्रज्ञापर्णोदकफेनम्, तस्मात् । [लेलौ] लश्च इलश्च = लेलो। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org