________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१०१
बल-वात-दन्त-ललाटादूलः ॥ ७।२।१९ ॥
[बलवातदन्तललाटात् ] बलश्च वातश्च दन्तश्च ललाटश्च = बलवातदन्तललाटम्, तस्मात् । [ऊलः] ऊल प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[बलूलः, बलवान्] बलमस्यास्ति = बलूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्बलवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० ।
[वातूलः, वातवान् ] वातोऽस्यास्ति = वातूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्वातवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२११।९४) म० → व० ।
[दन्तूलः, दन्तवान्] दन्ता अस्य सन्ति = दन्तूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्दन्तवान् । तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० ।
[ललाटूलः, ललाटवान्] ललाटमस्यास्ति = ललाटूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-ललाटवान् । तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्ताञ्चम०' (२।१९४) म० → व० ।
प्राण्यङ्गादातो लः ॥ ७।२२० ॥
[प्राण्यङ्गात् ] प्राण्यङ्ग पञ्चमी ङसि । [आतः] आत् पञ्चमी ङसि ।
[लः] ल प्रथमा सि ।
चूडा-शिखाभ्यां चूलायां शिरस्यपि वर्तमानाभ्यां प्राण्यङ्गत्वात् लः ।
[चूडालः, चूडावान् ] चूडा अस्यास्ति = चूडालः । अनेन लप्र० । एवम्-चूडावान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् ।
[जङ्घालः, जावान् ] जङ्घा अस्यास्ति = जङ्घालः । अनेन लप्र० । एवम्-जङ्घावान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् ।
[शिखालः, शिखावान् ] शिखा अस्याऽस्ति = शिखालः । अनेन लप्र० । एवम्-शिखावान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेन मतुप्र० → मत् ।
[जावान् प्रासादः] जङ्घा अस्यास्ति = जङ्घावान् प्रासादः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ।
[शिखावान् प्रदीपः ] शिखा अस्यास्ति = शिखावान् प्रदीपः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ।
[इच्छावान्] 'इषत् इच्छायाम्' (१४१९) इष् । इष्यते-अन्विष्यतेऽनयेति । 'मृगयेच्छा०' (५।३।१०१) इच्छा निपात्यते । इच्छा अस्यास्ति = इच्छावान् । 'तदस्याऽस्त्य०' (७।३।२) मतुप्र० → मत् ।
[वासनावान्] वासना अस्यास्ति = वासनावान् । 'तदस्याऽस्त्य०' (७२।१) मतुप्र० → मत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org