SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां । [तः] त प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [मरुत्तः, मरुत्वान्] मरुदस्यास्ति = मरुत्तः, मरुत्वान् । अनेन त-मतुप्र० → मत् । प्रथमा सि । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० । [पर्वतः, पर्ववान्] पर्वन् । पर्वाणि सन्त्यस्यां = पर्वतः, पर्ववान् । अनेन त-मतुप्र० → मत् । प्रथमा सि । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → व० ॥छ।। वलि-वटि-तुण्डेर्भः ॥ ७।२।१६ ॥ [वलिवटितुण्डेः] वलिश्च वटिश्च तुण्डिश्च = वलिवटितुण्डि, तस्मात् । [भः] भ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [वलिभः, वलिनः, वलिमान्] वलिरस्यास्ति = वलिभः । अनेन भप्र० । एवम्-वलिनः । 'नोऽङ्गादेः' (७।२।२९) नप्र० । एवम्-वलिमान् । 'आ यात्' (७।२।२) मतुप्र० → मत् । [वटिभः] वटिरुन्नतनाभिरस्यास्ति = वटिभः । अनेन भप्र० । [तुण्डिभः, तुण्डिलः] तुण्डिः-प्रवृद्धा नाभिरस्यास्ति = तुण्डिभः । अनेन भप्र० । एवम्-तुण्डिलः । 'सिध्मादिक्षुद्रजन्तु-रुग्भ्यः ' (७।२।२१) लप्र० । एकदेशविकृतस्याऽनन्यत्वात् तुन्दिशब्दादपि भे तुन्दिभ इति क्षीरः ॥छ।। ऊर्णा-ऽहं-शुभमो युस् ॥ ७।२।१७ ॥ [ऊर्णाऽहंशुभमः ] ऊणा च अहं च शुभं च = ऊर्णाऽहंशुभम्, तस्मात् । [युस् ] युस् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [ऊर्णायुः उरभ्रः ] ऊर्णा अस्यास्ति = ऊर्णायुः उरभ्रः । अनेन युस्प्र० । सकारोऽनुबन्धार्थः । [अहंयुः अहंकारी] अहमस्यास्ति = अहंयुः अहंकारी । अनेन युस्प्र० । [शुभंयुः कल्याणवृद्धिः] शुभमस्यास्ति = शुभंयुः । अनेन युस्प्र० । कल्याणवृद्धिः छ।। कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ॥ ७।२।१८ ॥ [कंशंभ्याम् ] कं च शं च = कंशमौ, ताभ्याम् = कंशंभ्याम् । पञ्चमी भ्याम् । [युस्तियस्तुतवभम् ] युस् च तिश्च यस् च तुश्च तश्च वश्च भश्च = युस्तियस्तुतवभम् । [कंयुः, कन्तिः, कंयः, कन्तुः, कन्तः, कंवः, कम्भः] कमस्यास्ति = कंयुः, कन्तिः, कंयः, कन्तुः, कन्तः, कंवः, कम्भः । अनेन युस्-ति-यस्-तु-त-व-भप्र० । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [शंयुः, शन्तिः, शंयः, शन्तुः, शन्तः, शंवः, शम्भः] शमस्यास्ति = शंयुः, शन्तिः, शंयः, शन्तुः, शन्तः, शंवः, शम्भः । अनेन युस्-ति-यस्-तु-त-व-भप्र० । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । पूर्वत्र सूत्रे इह च युस्-यसोः सकारो 'नाम सिदय्व्यञ्जने' (१।१।२१) इति पदत्वार्थः, तेन 'तौ मुमो व्यञ्जने स्वौ' (१।३।१४) इत्यनुस्वाराऽनुनासिकौ कंयः, कर्म्यः, शंयः, शर्यः यतश्चतुष्कं भणितम्-"य-लवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ" 'तुल्यस्थानाऽऽस्यप्रयत्नः स्वः' (१।१।१७) इत्यस्मिन् सूत्रे छा। For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy