________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
वृन्दादारकः ॥ ७२।११ ॥
[वृन्दात्] वृन्द पञ्चमी ङसि । [आरकः] आरक प्रथमा सि ।
[वृन्दारकः, वृन्दवान्, वृन्दी] वृन्दमस्यास्ति = वृन्दारकः । अनेन आकप्र० । एवम्-वृन्दवान् । 'आ यात्' (७।२।२) मतप्र० , मत् । एवम्-वृन्दी । 'शिखादिभ्य इन्' (७।२।४) इनप्र० । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१४|४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२२१२९१) नलुक् ॥छ।
शृङ्गात् ॥ ७२।१२ ॥ [शृङ्गात् ] शृङ्ग पञ्चमी ङसि ।
[शृङ्गारकः, शृङ्गवान्, शृङ्गी ] शृङ्गमस्यास्ति = शृङ्गारकः । अनेन आरकप्र० । एवम्-शृङ्गवान् । अनेन मतुप्र० → मत् । एवम्-शृङ्गी । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।।
फल-बर्हाच्चेनः ॥ ७।२।१३ ॥ [फलबर्हात् ] फलं च बहँ च = फलबर्हम्, तस्मात् । [च] च प्रथमा सि । [इनः ] इन प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[फलिनः, फलवान्, फली ] फलमस्यास्ति = फलिनः, फलवान् । अनेन इन-मतुप्र० → मत् । एवम्-फली । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० ।
[बर्हिणः, बर्हवान्, बहीं ] बर्हाणि अस्य सन्ति = बहिणः, बर्हवान् । अनेन इनप्र० । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् । एवम्-बहीं । शिखिना बहभारेषु केशानिति दर्शनात् 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । __ [शृङ्गिणः, शृङ्गवान्] शृङ्गमस्यास्ति = शृङ्गिणः, शृङ्गवान् । अनेन इन-मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ।।
मलादीमसश्च ॥७२१४॥ [मलात ] मल पञ्चमी ङसि ।
[ईमसश्च ] ईमस प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि ।
[मलीमसः, मलिनः, मलवान् ] मलमस्यास्ति = मलीमसः, मलिनः । अनेन ईमस-इनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-मलवान् । 'आ यात्' (७।२।२) इत्यधिकारात् अनेनैव मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१९४) म० → व० ॥छ।।
मरुत्-पर्वणस्तः ॥ ७।२।१५ ॥ [मरुत्पर्वणः] मरुच्च पर्वा च = मरुत्पर्व, तस्मात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org