________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
.
प्राय
इकेनावेवेति नियमादतो मतुर्न भवति । भावादेवेति नियमादतो द्रव्यवाचिन इकेनौ न भवतः -
[अर्थवान् ] अर्थ्यतेऽसौ अर्थः । 'युवर्ण-वृ-दृ०' (५।३।२८) अल्प्र० → अ । अथवा 'ऋक् गतौ' (११३५) ऋ । अर्यत-उपार्यते जनैरसाविति अर्थः । 'कमि-प्र-गार्तिभ्यस्थः' (उणा० २२५) थप्र० । 'नामिनो गुणोऽक्ङिति' . (४।३।१) गु० अर् । अर्थो हिरण्यादिरस्यास्ति = अर्थवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् ।। 'मावर्णान्तोपान्तापञ्च०' (२।१।९४) म० → वत्वम् ॥छ।
व्रीह्यर्थ-तुन्दादेरिलश्च ॥ ७।२।९ ॥ [व्रीह्यर्थतुन्दादेः ] व्रीह्यर्थश्च तुन्दादिश्च = व्रीह्यर्थतुन्दादि, तस्मात् । [इलः] इल प्रथमा सि । [च] च प्रथमा सि । चकारादिकेनौ ।
[कलमिलः, कलमिकः, कलमी, कलमवान्] कलम । कलमा अस्यास्मिन् वा सन्ति = कलमिलः, कलमिकः, कलमी । अनेन इल-इक-इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । एवम्-कलमवान् । 'आ यात्' (७।२।२) मतुप्र० → मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् ।
[शालिलः, शालिकः, शाली, शालिमान्] शालि । शालयो अस्यास्मिन् वा सन्ति = शालिलः, शालिकः, शाली । अनेन इल-इक-इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । एवम्-शालिमान् । 'आ यात्' (७।२।२) मतुप्र० → मत् ।
व्रीहिशब्दोऽपि व्रीह्यर्थो भवति, किन्तु तस्य पूर्वसूत्रोपादानादिलो न भवति । भावे हि तत्रोपादानमनर्थकं स्यात् ।
[तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान्] तुन्दमस्यास्मिन् वास्ति = तुन्दिलः, तुन्दिकः, तुन्दी । अनेन इल-इकइन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-तुन्दवान् । 'आ यात्' (७।२।२) मतुप्र० → मत् ।,
[उदरिलः, उदरिकः, उदरी, उदरवान्] उदरमस्यास्मिन् वास्ति = उदरिलः, उदरिकः, उदरी । अनेन इल-इकइन्प्र० । एवम्-उदरवान् । 'आ यात्' (७।२।२) मतुप्र० → मत् । गणोऽत्र ॥छ।
स्वाङ्गाद् विवृद्धात् ते ॥ ७।२।१० ॥ [स्वाङ्गात्] स्वस्याङ्गं = स्वाङ्गम्, तस्मात् । [विवृद्धात् ] विशेषेण वृद्धं = विवृद्धम्, तस्मात् ।
[ते ] तद् प्रथमा जस्. । 'आवरः' (२।१।४१) द्० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'जस इ.' (१।४।९) इ । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए ।
[कर्णिलः, कर्णिकः, कर्णी, कर्णवान् ] विवृद्ध-महान्तौ कर्णावस्य स्तः = कर्णिलः, कर्णिकः, कर्णी, कर्णवान् । अनेन इल-इक-इन-मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ओष्ठिलः, ओष्ठिकः, ओष्ठी, ओष्ठवान् ] विवृद्धौ-महान्तावाष्ठावस्य स्तः = ओष्ठिलः, ओष्ठिकः, ओष्ठी, ओष्ठवान् । अनेन इल-इक-इन्-मतुप्र० → मत् ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org