SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [सिंहवान् ] सिंहोऽत्रास्ति = सिंहवान् । [वृक्षवान्] वृक्षोऽत्रास्ति = वृक्षवान् । [प्लक्षवान्] प्लक्षोऽत्रास्ति = प्लक्षवान् । [द्रव्यवान्] इं (११) - दुं (१२) - 'वें गतौ' (१३) द्रु । द्रोस्तुल्यः = द्रव्यम् । 'द्रोभव्ये' (७१।११५) . ' यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । द्रव्यं विद्यतेऽस्य = द्रव्यवान् । [क्रव्यवान् ] क्रव्यं-मांसं विद्यतेऽस्य = क्रव्यवान् । [सस्यवान् ] सस्य-धान्यं विद्यतेऽस्य = सस्यवान् । [माल्यवान्] माल्यं विद्यतेऽस्य = माल्यवान् । [पुण्यवान् ] पुण्यं विद्यतेऽस्य = पुण्यवान् । [सत्यवान् ] सत्यं विद्यतेऽस्य = सत्यवान् । [धनवान् ] धनं विद्यतेऽस्य = धनवान् । सर्वत्र 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० । व्याघ्रादयो लोकप्रसिद्धा जातिशब्दाः, द्रव्यादयस्तु सुशास्त्रप्रसिद्धा जातिशब्दा इति दर्शयितुं तथेत्युक्तम् । क्वचिद्भवत: - [तण्डुलिकः, तण्डुली] तण्डुलाः सन्त्यस्यां = तण्डुलिकः, तण्डुली । अनेन इक-इनप्र० । 'अवर्णेवर्णस्य'.. (७४/६८) अलुक् । [कर्पटिकः, कर्पटी] कर्पटोऽस्यास्ति = कर्पटिकः, कर्पटी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८). अलुक् । [धनिकः, धनी ] धनमस्यास्ति = धनिकः, धनी । अनेन इक-इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सप्तम्यर्थे च न भवतः - [ दण्डवद् गृहम् ] दण्डोऽस्मिन्नस्ति = दण्डवद् गृहम् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मनुप्र० → मत् । [वीरवान् ग्रामः] वीरोऽत्रास्ति = वीरवान् ग्रामः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । क्वचित् सप्तम्यर्थेऽपि भवतः - [खलिनी भूमिः ] खलानि अस्यां सन्ति = खलिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी। [शाद्वलिनी भूमिः ] शाद्वलोऽत्रास्ति = शाद्वलिनी भूमिः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी । क्वचिद्भवत: - [रसिको नटः] रसोऽत्रास्ति = रसिको नटः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy