SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [पाकवान्] 'डुपचीष् पाके (८९२) पच् । पचनं = पाकः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिट-श्च-जोः क-गौ घिति' (४|११११) च० ,क० । पाकोऽस्यास्ति = पाकवान् । [स्नेहवान् ] स्नेहोऽस्यास्ति = स्नेहवान् । सर्वत्र 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० । [कार्यिकः, कार्यां] कार्यमस्यास्ति = कार्यिकः, कार्यां । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ हार्यिकः, हार्टी ] हार्यमस्यास्ति = हार्यिकः, हार्यो । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [गृहिकः, गृही] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । गृह्णाति सर्वमिति गृहम् । 'गेहे ग्रहः' (५।११५५) कप्र० → अ । 'ग्रह-व्रम्च-भ्रस्ज-प्रच्छ:' (४।१।८४) य्वत् ग्र० → गृ० | गृहमस्यास्ति = गृहिकः, गृही । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [दात्रिकः, दात्री ] दैव् शोधने' (२९) दै । 'आत् सन्ध्यक्षरस्य' (४।२।१) दा । दायते-क्षेत्रं शुध्यते = दात्रम् । 'नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट्' (५।२।८८) त्रटप्र० →त्र । दात्रमस्यास्ति = दात्रिका, दात्री । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पोत्रिकः, पोत्री ] 'पूग्श् पवने' (१५१८) पू । पूयते इति पोत्रम् । 'हल-क्रोडाऽऽस्ये पुवः' (५।२।८९) त्रटप्र० →त्र । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । हलसुकरयोर्मुखं = पोत्रम् । पोत्रमस्यास्ति = पोत्रिका, पोत्री । अनेन .. इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [भोगिकः, भोगी] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनं = भोगः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जो:०' (४।१।१११) ज० → ग० । भोगोऽस्यास्ति = भोगिकः, भोगी । अनेन इक-इनप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । __ [तरिकः, तरी] 'तू प्लवन-तरणयोः' (२७) तृ । तरतीति तरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । तरोऽस्यास्ति = तरिकः, तरी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [विजयिकः, विजयी] 'जिं अभिभवे' (८) जि, विपूर्व० । विजयनं = विजयः । 'युवर्ण-वृ-दृ०' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । विजयोऽस्यास्ति = विजयिकः, विजयी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् [संयमिकः, संयमी] 'यमूं उपरमे' (३८६) यम्, सम्पूर्व० । संयमनं = संयमः । 'सं-नि-व्युपाद् यमः' (५।३।२५) अल्प्र० → अ । संयमोऽस्यास्ति संयमिकः, संयमी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।८६) अलुक् । [स्थानिकः, स्थानी] स्थानमस्यास्ति = स्थानिकः, स्थानी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जातिशब्देभ्यो न भवतः - [व्याघ्रवान् ] व्याघ्रोऽत्रास्ति = व्याघ्रवान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy