SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ छत्रिकः, छत्री, छत्रवान् ] छत्रमस्यास्ति = छत्रिकः, छत्री, छत्रवान् । अनेन इक इन्- मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'मावर्णान्तोपान्ता० ' (२।१।९४) म० वत्वम् । मत् । [ खट्वावान् ] खट्वा अस्यास्ति = खट्वावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७ २ १) मतुप्र० [ मालावान् ] माला अस्यास्ति = मालावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२१) मतुप्र० मत् । [खवान् ] खमस्यास्ति = खवान् । [ स्ववान् ] स्वं द्रव्यमस्यास्ति स्ववान् । [राप्यवान् ] 'रप जल्पे' (व्यक्ते वचने) (३३५) रप् । रप्यते = राप्यम् । 'आसु-यु- वपि रपि-लपि - त्रपि-डिपिदभि - चम्यानम:' ( ५/१/२०) घ्यण्प्र० य । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । राप्यमस्यास्ति = राप्यवान् । ९४ = [ लाप्यवान् ] 'लप जल्पे' (व्यक्ते वचने) (३३६) लप् । लप्यते = लाप्यम् । 'आसु-यु-वपि - रपि-लपि ० ' (५/१/२०) घ्यण्प्र०य । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । लाप्यमस्यास्ति = लाप्यवान् । [लव्यवान् ] 'लूग्श् छेदने' (१५१९) लू । लूयते लव्यम् । 'य एच्चात:' ( ५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (११२।२५) अव् । लव्यमस्यास्ति लव्यवान् । = [ हव्यवान् ] 'हुंक् दाना-ऽदनयो:' ( ११३०) हु । हूयते = हव्यम् । 'य एच्चात: ' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति (४|३|१) गु० ओ । 'य्यक्ये' (११२।२५ ) अव् । हव्यमस्यास्ति हव्यवान् । = [ कृत्यवान् ] 'डुकृंग् करणे' (८८८) कृ । क्रियत इति कृत्यम् । 'कृ - वृषि - मृजि - शंसि - गुहि-दुहि - जपो वा' (५।१।४२) क्यप्प्र० य । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । कृत्यमस्यास्ति = कृत्यवान् । = [ भृत्यवान् ] 'टुडुभृंग्क् पोषणे च' (१९४०) भृ । भ्रियत इति भृत्यम् । 'भृगोऽसंज्ञायाम् ' ( ५|१|४५) क्यप्प्र ० य । 'ह्रस्वस्य०' (४|४|११३) तोऽन्तः । भृत्योऽस्यास्ति भृत्यवान् । [ कारकवान् ] 'डुकृंग् करणे' (८८८) कृ । करोतीति कारक: । 'णक - तृचौ' (५।१।४८) णकप्र० अक । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । कारकोऽस्यास्ति = कारकवान् । [ हारकवान्] 'हंग् हरणे' (८८५) हृ । हरतीति हारक: । 'णक - तृचौ' (५१११४८) णकप्र० 'नामिनोऽकलि-हलेः' (४/३/५१) वृद्धिः आर् । हारकोऽस्यास्ति = हारकवान् । Jain Education International [ कुम्भकारवान् ] कुम्भं करोतीति कुम्भकारः । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० अ । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः आर् । कुम्भकारोऽस्यास्ति = कुम्भकारवान् । [ धान्यमायवान् ] धान्य 'मांक् माने' (२०७३) मा । 'मां मानशब्दयोः ' (११३७) मा । 'मेङ् प्रतिदाने' (६५०३) मे । धान्यं माति मिमीते मयते वा = धान्यमाय: । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० → अ । 'आत ऐ: कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । धान्यमायोऽस्यास्ति = धान्यमायवान् । → अक । [हिंस्रवान् ] 'हिसु हिंसायाम् ' (१४९४ ) हिस् । 'उदितः स्वरान्नोऽन्तः' (४|४|९८ ) नोऽन्तः । हिनस्तीति हिंस्रः । 'रम्यजस-हिंस-दीप-कम्प-कम-नमो रः' (५|२|७९) रप्र० । हिंस्त्रोऽस्यास्ति = हिंस्रवान् । For Personal & Private Use Only [ ईश्वरवान् ] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे = ईश्वरः । 'स्थेश - भास - पिस - कसो वरः ' (५/२८१) वरप्र० । 'ईश्वरोऽस्यास्ति = ईश्वरवान् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy