________________
९२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[रूपवान् ] रूपं विद्यतेऽस्यासौ = रूपवान् । अनेन मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१२९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । शेषं स्पष्टम् ।
[रसवान् ] रसो विद्यतेऽस्य = रसवान् । अनेन मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । शेषं स्पष्टम ।
[शौक्ल्यवान] शौक्ल्यं विद्यतेऽस्यासौ = शौक्ल्यवान् । अनेन मतुप्र० → मत् । 'मावर्णान्तोपा०' म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । शेषं स्पष्टम् ।
[कार्यवान् ] कायं विद्यतेऽस्यासौ = कार्यवान् । अनेन मतुप्र० → मत् । 'मावर्णान्तोपा०' (२१९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । शेषं स्पष्टम् ॥छ।।
आ यात् ॥ ७।२।२ ॥ [आ] आ प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप । [यात् ] य पञ्चमी ङसि । [कुमारीमान् ] कुमारी अस्यास्ति = कुमारीमान् । 'नावादेरिकः' (७।२।३) इत्यनेन इकप्राप्तौ अनेन मतुप्र० → मत् । [व्रीहिमान् ] व्रीहिरस्यास्ति = व्रीहिमान् । 'व्रीह्यादिभ्यस्तौ' (७।२।५) इत्यस्य प्राप्तौ अनेन मतुप्र० → मत् । । [दण्डवान् ] दण्डोऽस्यास्ति = दण्डवान् । 'अतोऽनेकस्वरात्' (७।२।६) इत्यस्य प्राप्तौ अनेन मतुप्र० → मत् ।
[अशीर्षवान् ] न विद्यते शिरोऽस्य अशिराः, सोऽस्यास्ति = अशीर्षवान् । 'अशिरसोऽशीर्षश्च' (७।२७) इत्यनेन इन्प्राप्तौ अनेन मतुप्र० → मत्-अशिरसो अशीर्ष आदेशः । __ [वातवान्] वातोऽस्यास्ति = वातवान् । 'बल-वात-दन्त-ललाटादूलः' (७।२।१९) इत्यस्य प्राप्तौ अनेन मतुप्र० → मत् । __ [चूडावान्] चूडा अस्यास्ति = चूडावान् । 'प्राण्यङ्गादातो लः' (७।२।२०)-'शिखादिभ्य इन्' (७।२।४) अनयोः प्राप्तौ अनेन मतुप्र० → मत् । __ [सिध्मवान् ] सिध्मान्यस्य सन्ति = सिध्मवान् । 'सिध्मादि-क्षुद्रजन्तु-रुग्भ्यः' (७।२।२१) इत्यस्य प्राप्तौ अनेन मतुप्र० → मत् ।
[गोमान् ] गौरस्यास्ति = गोमान् । 'गोः' (७।२।५०) इत्यनेन सूत्रेण मिन्प्राप्तौ अनेन मतुप्र० → मत् । [ गुणवान् ] गुणा विद्यन्तेऽस्य सः = गुणवान् । 'गुणादिभ्यो यः' (७।२।५३) इत्यस्य प्राप्तौ अनेन मतुप्र० → मत् ।
आ यादित्यभिविधावाङ् । अपवादैबर्बाधा मा भूदिति वचनम् । तेन यथाभिधानमिति कोऽर्थः ? 'काला-जटा-घाटात् क्षेपे' (७२।२३) इत्यादिभिः कैश्चित्सूत्रैरर्थविशेषे प्रत्ययोऽभिहितः, स च मतुना न गम्यते इति तदर्थप्रतिपादनायतत्सूत्रविहित एव प्रत्ययो भवति, न तु मतुरित्याशयः ॥छ।
नावादेरिकः ॥ ७॥२॥३॥ [नावादेः] नौरादिर्यस्य सः = नावादिः, तस्मात् । [इकः] इक प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org