________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
[हस्तिमती उपत्यका] हस्तो विद्यतेऽस्य = हस्ती । 'हस्त-दन्त-कराज्जातौ' (७२।६८) इनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । हस्ती अत्रास्ति = हस्तिमती उपत्यका । अनेन मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी ।
[दण्डिकाः, दण्डिनः] दण्ड एषामस्तीति दण्डिकाः, दण्डिनः । 'नावादेरिकः' (७।२।३) इकप्र० । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दण्डिका अस्य सन्ति । इन्-मतू न भवति(तः) । एषामस्येति षष्ठ्याः सद्भावात् समाना वृत्तिः । क्वचिदिति समानायामसमानायां च वृत्तौ ।
[शालीयः ] शालायां भवः = शालीयः । 'दोरीयः' (६।३।३२) ईयप्र० । पुनः शालीये भवः समाना वृत्तिः, शालीयस्यायं वेतीयो न भवति । विरूपस्तु भवति
[आहिच्छत्रीयः] अहिच्छत्रे भवः = आहिच्छत्रः । 'भवे' (६।३।१२३) अण्प्र० → अ । आहिच्छत्रे भवः = आहिच्छत्रीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७४।६८) अलुक् ।
तथा असंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवति[वीरपुरुषा अस्मिन् ग्रामे सन्ति ] वीराश्च ते पुरुषाश्च = वीरपुरुषाः । अत्र मत्वर्थीयो नायात: । अस्मिन् ग्रामे सन्ति । अत्र बहुव्रीहिरेव भवति[वीरपुरुषको ग्रामः ] वीरपुरुषा अत्र सन्ति = वीरपुरुषको ग्रामः । ‘शेषाद् वा' (७।३।१७५) कच्प्र० → क । संज्ञायास्तु भवत्येव
[गौरखरवदरण्यम् ] गौरश्चासौ खरश्च = गौरखरः । गौरखरोऽत्रास्ति = गौरखरवत् । अनेन मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१९४) म० → व० । प्रथमा सि । 'अनतो लुप्' (१।४।५९) लुप् । अरण्य . प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । __ [कृष्णसर्पवान् वल्मीकः ] कृष्णश्चासौ सर्पश्च = कृष्णसर्पः । कृष्णसर्पोऽत्रास्ति = कृष्णसर्पवान् वल्मीकः । अनेन
) म० → वत्वम् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
[लोहितशालिमान् ग्रामः ] लोहितशालिविद्यतेऽस्मिन् = लोहितशालिमान् ग्रामः । अनेन मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । ___[ऐकगविकः] एका चासौ गौश्च = एकगवः । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः → अ । 'अस्वयम्भुवो०' (७।४।७०) अव् । स अत्रास्ति = ऐकगविकः । 'एकादेः कर्मधारयात्' (७।२।५८) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । - [सर्वधनी] सर्वं च तद् धनं च = सर्वधनम्, तदत्रास्ति = सर्वधनी । 'सर्वादेरिन्' (७।२।५९) इन्प्र० ।
'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । .. 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
तथा गुणे गुणिनि च ये गुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति । ये तु गुणमात्रे एव वर्तन्ते तेभ्यो भवत्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org